________________
४८
श्रीउत्तराध्ययनदीपिकाटीका-१ कालिकाचार्यशिष्यास्तु प्रातर्गुरुमपश्यन्तः शय्यातरमूचुः क्व गुरवः ? सोऽवक् यूयं दुविनीताः कृतघ्ना निजगुरुं क्वापि गतं न वित्थ ? किमहं जाने ? तैर्भाषादिना गुरुस्वरूपं वेत्त्येष इति ज्ञात्वा निर्बन्धात् पृष्टः, न पुनरेवं कुर्म एवेति तैः प्रप्रन्ने तेन स्थानं प्रोक्तं । ततस्ते सुवर्णभूमिं गताः, तद्वन्दं दृष्ट्वा लोका आहुः क आचार्यो याति, ते उचुः कालिकाचार्याः, जनपरम्परया सागरक्षपणेन श्रुत्वा पृष्टं भो वृद्ध ! किं श्रुतं ? यन्मम पितामह एति। सोऽवक् मयापि श्रुतं । साधव एताः, सागरोऽभ्युत्थितः, तैरूचे सन्त्यत्र गुरवः ? सागरेणोचे ज्यायानेकोऽस्ति न गुरवः, साधुभिदृष्ट्वोचे अम्येव गुरवः, तं स्वगुरूं ज्ञात्वा हीणः सागरस्ते च सर्वे पदोर्लगित्वा गुरुमवन्दन्ताऽक्षामयंश्च । सागरः पुनः पुनः क्षामयन् पप्रच्छ कीहक्कीदृगहं व्याख्यामि ? गुरुरूचे लष्टं, परं वत्स मा गर्वीः ! को वेत्ति कस्य क आगम इति । धूलिचिक्खिल्लपिण्डज्ञाते उक्ते
मा वहउ कोइ गव्वं, इत्थ जए पंडिओ अहं चेव ।
आसव्वन्नु मयाओ, तरतमजोएण मइ विविहा ॥१॥ [सं.रं./गा.६७८६] स प्रतिक्रान्तः, इति न कार्यं प्रज्ञौत्सुक्यं सागरक्षपणवत् । कालिकाचार्याणां समीपे शक्र एत्य निगोदजीवस्वरूपं पप्रच्छेत्यादिसम्बन्धो ग्रन्थान्तरादवसेयः, एवं प्रज्ञायाः सद्भावे दृष्टान्त उक्तः, अभावे तु स्वयं ज्ञेयः, इत्युक्तो विंशः प्रज्ञापरीषहः ॥४१॥ प्रज्ञावदज्ञानमपि सह्यं, तस्मिन्न दुःखं कार्यं, इत्यज्ञानपरीषहमाह
निरझुगंमि विरउ, मेहुणाओ सुसंवुडो ।
जो सक्खं नाभिजाणामि, धम्मं कल्लाणपावगं ॥४२॥ व्याख्या-निरर्थके मोक्षाऽभावे सति मैथुनाद्विरतः, सुसंवृत इन्द्रियमन:संवरात् , दुस्त्याज्यस्य मैथुनस्य विरत्युक्त्या हिंसादिविरतोऽपि ज्ञेयः, यः साक्षात् स्फुटं नाभिजानामि, धर्म वस्तुस्वरूपं, कल्याणं शुभं पापकमशुभं वा, बिन्दुलोपोऽत्र यद्वा धर्ममाचारं, कल्योऽत्यन्तं नीरुग् न मोक्षस्तं अणतीति कल्याणं मोक्षहेतुं पापकं नरकादिहेतुं, कोऽर्थः ? चेद्विरतेः फलं तदा मे कथमज्ञानम् ? ॥४२।। तथा
तवोवहाणमाया( दा)य, पडिमं पडिवज्जओ ।
एवं पि विहरओ मे, छउमं न नियट्टइ ॥४३॥ व्याख्या-तपो भद्रादि, उपधानं श्रुतयोगरूपमाचाम्लादि, तदादाय चरित्वा प्रतिमां
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org