________________
द्वितीयं परीषहाध्ययनम्
क्षुधादिपरीषहजयेऽपि प्रज्ञायां च खेदो न कार्य इति प्रज्ञापरीषहमाहसे नूणं मए पुव्वं, कम्मानाणफला कडा ।
जेणाहं नाभिजाणामि, पुट्ठो केणइ कन्हई ॥४०॥
व्याख्या- 'से' उपन्यासे, इह प्रज्ञापरीषहो द्विधा, प्रज्ञायाः प्रकर्षेऽप्रकर्षे च तत्र प्रज्ञाप्रकर्षपक्षे व्याख्या- - नूनं मया पूर्वभवे ज्ञानफलानि ज्ञानप्रशंसादीनि कर्माणि कृतानि । अपेर्लोपात् येनाहं नापि मत्त्र्त्योऽपि पृष्टः केनापि सर्वेणेत्यर्थः, कस्मिंश्चिद्यत्रतत्रार्थेभिज्ञानामि उत्तरं ददे ||४०||
अह पच्छा उइज्जंति, कम्मानाणफला कडा । एवमासासि अप्पाणं, नच्चा कम्मविवागयं ॥ ४१ ॥
व्याख्या - अथ पश्चादुदेष्यन्ति अज्ञानफलानि कर्माणि कृतान्यबाधाकालादेः, तदुच्छेदायोपक्रमामि, न तु ज्ञानगर्वं दधे । एवमाश्वासयित्वाऽात्मानं निर्मलं कुरु ? ज्ञात्वा कर्मविपाककं कर्मणां कुत्सितं विपाककम् ॥४१॥
"
४७
प्रज्ञाहीनपक्षे तु व्याख्या - नूनं मया पूर्वं कर्माण्यज्ञानफलानि ज्ञानहीलादीनि कृतानि येनाहं केनापि कस्मिंश्चित् सुगमेऽपि जीवादौ द्रव्येऽर्थे वा पृष्टो नाभिजानामि न वेद्मि ||४०||
'अह' अथ यदा तदा चोदीयन्ते द्रव्यादिसान्निध्यात् कर्माण्यज्ञानफलानि कृतानि, निर्मलस्य जन्तोः प्रकाशरूपस्य स्फटिकाभस्याऽप्रकाशत्वे ज्ञानावृत्तिरेव हेतु:, वेरिवाभ्रं, एवं ध्यात्वाऽऽश्वासयात्मानं ? दुःखितं स्वस्थं कुरु ? शेषं प्राग्वत् ॥४१॥ प्रज्ञापरीषहे सागरचन्द्रसूरिदृष्टान्तः
उज्जेणीकालखमणा, सागरखमणा सुवन्नभूमीए ।
इंदो आउयसेसं, पुच्छइ सादिव्वकरणं च ॥१॥ [ उ.नि./गा. १२० ] अवन्त्यां कालिकाचार्यो बहुश्रुतः, तच्छिष्याः पठितुं नेच्छन्ति सामाचार्यामलसाः, मृद्वपि शिक्षिताः क्रुद्ध्यन्ति । गुरुः शय्यातरस्योक्त्वा शिष्यान् मुक्त्वा रात्रौ निर्गतः सुवर्णभूमौ । तत्र शिष्यशिष्यः सागरक्षपणः सगच्छोऽस्ति । तदुपाश्रये स गतः, तेनाऽनुपलक्षयता नाभ्युत्थानादि कृतं, परं वृद्धसाधुरिति स्वाश्रयेऽस्थापि । तेन कुत आगता इति पृष्टेऽवन्त्या इत्यसावूचे । ततोऽनुयोगं शिष्येभ्यो ददता तेन पृष्टं वृद्धायं श्रुतस्कन्धस्तव गतार्थः ? तेनोक्तं नूनं गतार्थः, सोऽवक् शृणु तर्हि इत्युक्त्वा स प्रज्ञागर्वेण श्रावयितुं लग्नः । इतः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org