________________
४६
श्रीउत्तराध्ययनदीपिकाटीका-१ व्याख्या-अभिवादनं शिरोनामनांह्रिस्पर्शादि, अभ्युत्थानं स्पष्टं, तथासनमोचनं, तता स्वामी नृपादिः, निमन्त्रणं स्वगृहे पारणादिरूपं कुर्यात् । ये स्वयूथ्या अन्यतीर्थ्या वा तान्यभिवादनादीनि श्रुतनिषिद्धान्यपि प्रतिसेवन्ते, न तेभ्यः स्पृहयेन्मुनिर्यथा सुजन्मानोऽमी सभाग्या य एवं सत्क्रियन्ते इति ॥३८|| किञ्च
अणुक्कसाई अप्पिच्छे, अण्णाएसी अलोलुए ।
रसेसु नाणुगिज्झिज्जा नाणुतप्पिज्ज पण्णवं ॥३९॥ व्याख्या-उत्कः उत्कण्ठितः सत्कारादिषु शेते इत्येवंशील उत्कशायी, न तथा अनुत्कशायी, यद्वा प्राकृतत्वात् अणुकषायी, सत्काराद्यकुर्वते न कुप्यति, तत्सम्पत्तौ च न मानी, यतः
पलिमंथमहं वियाणिया, जावि य वंदणपूअणा इहं ।
सुहमे सल्ले दुरुद्धरे, इय संखाय मुणी न मज्जइ ॥१॥[ ] तदर्थमातापनादिमायालोभो वा न, अल्पेच्छो धर्मोपकरणमात्रेच्छ:, अज्ञातैषी स्वं जात्यादिभिरविज्ञाप्याऽज्ञातचोक्षकुलेषु चैषयति पिण्डादीनित्यज्ञातैषी, अलोलुपः सारौदनादिष्वगृद्धः, रसेषु घृतादिषु नानुगृह्येन्नाकाङ्क्षां कुर्यात् , सरसाशिनोऽन्यतीर्थ्यान्न स्तुयात् । नानुतप्येत सत्काराद्यर्थी किमहमेषां मध्ये न दीक्षित इति । प्रज्ञा हेयादेयविवेकमतिस्तद्वान् प्रज्ञावान् । सत्कारके तोषं न्यक्कारके च द्वेषमकुर्वताऽयं परीषहः सह्यः ।।
असत्कारपरीषहस्याऽसहने सहने च श्राद्धसाधुदृष्टान्तः-मथुरायामिन्द्रदत्तपुरोधसा प्रासादस्थेनाधो यान्तं यतिं वीक्ष्यास्य शीहि मुञ्चन्नस्मीत्याशयेनांहिरघोऽवालम्बि । स श्राद्धेन श्रेष्ठिना दृष्टः कृता च प्रतिज्ञाऽवश्यं मयैतत्पादश्छेद्यः, अथ स तस्य छिद्राणि वीक्षते। गुरूंश्चापि स्वप्रतिज्ञोदन्तं सोऽवक् । तैरूचेऽयं परीषह: साधुभिः सह्यः, सोऽवग् मम परं प्रतिज्ञा । गुरुभिरूचेऽस्यगृहेऽधुना किमस्ति ? सोऽवगस्य प्रासादो नवो निष्पन्नोऽस्ति, तत्प्रवेशाह्नि च स नृपं तत्र भोजयिष्यति, तैरूचे राजा तद्गृहे प्रविशंस्त्वया करे धृत्वा रक्षणीयः, विद्यया तत्प्रासादं चाहं पातयिष्ये । श्रेष्ठी तथाकरोत् पतितश्च तत्प्रासादः, ततः श्रेष्ठिना राज्ञे प्रोक्तमसौ वो हन्तुं दध्यौ। राजा रुष्टः पुरोहितं श्रेष्ठिसाच्चक्रे । स ज्ञापितः श्रेष्ठिना साध्वभक्ति । प्रवेशितश्चेन्द्रकीले तदंह्निः, स्वप्रतिज्ञापूरणार्थं च तेन तस्य पिष्टमयोंह्रिश्छिन्नः, प्रतिबुद्धजैनधर्मश्च स विसृष्टः, अत्र साधुनाऽसत्कारपरीषहः सोढः, श्राद्धेन च यथा न सोढो न तथा कार्य, किन्तु साधुवत् सह्यः, उक्त एकोनविंशः सत्कारपुरस्कारपरीषहः ॥३९।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org