________________
द्वितीयं परीषहाध्ययनम् तृणैः स्वेदान्मलः स्यादिति मलपरीषहमाह
किलिण्णगाए मेहावी, पंकेण व रएण वा ।
प्रिंसु वा परितावेणं, सायं नो परिदेवए ॥३६॥ व्याख्या-क्लिन्नं बाधितं गात्रं यस्येति क्लिन्नगात्रः क्लिष्टगात्रो, मेधावी अस्नानमर्यादावान् , व्याधितो वा अरोगी वेत्यादि स्मरन् , पडून स्वेदामलेन, रजसा कठिनमलेन पांशुना वा, ग्रीष्मे, वाशब्दाच्छरदि परितापेन सातं सुखं न परिदेवेत न प्रलपेत, कदा मे एवं मलाक्तस्य सुखं स्यादिति ।।३६।। ततः
वेइज्ज निज्जरापेही, आरियं धम्मणुत्तरं ।
जाव सरीरभेउ त्ति, जलं काएण धारए ॥३७॥ व्याख्या-वेदयेत् सहेत निर्जरापेक्षी, कर्मणामात्यन्तिकक्षयार्थं जल्लजं दुःखं, आर्यं धर्म, अनुत्तरं सर्वोत्तमं प्रपन्नो भवेद् भिक्षुरित्यर्थः, यावच्छरीरस्य भेदो विनाश स्यात्तावज्जल्लं काठिन्यापन्नं मलं कायेन धारयेत् । (पाठान्तरे-'वेयंतो निज्जरापेही'वेदयन् जानन् निर्जरार्थी ।) ॥
___ मलस्याऽपरीषहे इभ्यसुतर्षिदृष्टान्तः-चम्पायां सुनन्दो वणिक् श्राद्धः साधूनां सर्वदौषधादि ददौ । तदापणे साधवो मलाक्ताङ्गा एतास्तन्मलगन्धेनोत्कटेनौषधानां गन्धो भग्नः, सुनन्देन गन्धद्रव्यभावितेनाचिन्ति साधूनां सर्वं लष्टं परं मलधारित्वं न चारु, स तदनालोच्य मृतः कौशाम्ब्यामिभ्यपुत्रो जातो धर्मं श्रुत्वा दीक्षितश्च । तन्मलगर्दाकर्मोदयात् स दुर्गन्धोऽभूत् । यत्र यत्र याति तत्र तत्र कोऽपि स्थातुं नाशकत् । उड्डाहोऽभूत् । साधुभिः स वसतावेव स्थापितस्तत्र तेन कायोत्सर्गस्थेन स्वदुर्गन्धापनयनार्थं देवताराधिता, तुष्टया देवतया स सुगन्धः कृतः, ततोऽयं सुर्या सुगन्धः कृत इत्युड्डाहं ज्ञात्वा पुनः कायोत्सर्गस्थः सुर्या सर्वसामान्यगन्धः कृतः, यथा तेन मलो न सोढस्तथान्यैर्न कार्यं । इत्युक्तोऽष्टादशो मलपरीषहः ॥३७॥
समलः शुचीन् सत्क्रियमाणान् दृष्ट्वा कोऽपि सत्कारादि स्पृहयेदिति सत्कारपुरस्कारपरीषहमाह
अभिवायणमब्भुट्ठाणं, सामी कुज्जा निमंतणं । जे ताइं पडिसेवंति, न तेसिं पीहए मुणी ॥३८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org