________________
४४
श्रीउत्तराध्ययनदीपिकाटीका-१ रोगपरीषहे कालवैशिकमुनिदृष्टान्तः-मथुरायां जितशत्रुराजा, तेन कालीनाम्नी सुरूपैका वेश्यान्तःपुरे क्षिप्ता, तस्याः पुत्रः कालवैशिककुमारः स्थविराणां पार्वे प्रव्रज्यैकाकित्वं प्रपन्नो गतो मुद्गलशैलपुरं, तत्राहतशत्रो राज्ञो राज्ञी तत्स्वसा, तस्य साधोरर्शव्याधिरभूत् , स तस्य चिकित्सां न करोति न च कारयति तथाविधप्रत्याख्यानात् , तद्वृत्तान्तज्ञया राज्याझैषधमिश्रमन्नं तस्मै दत्तं । सोऽधिकरणं तद् ज्ञात्वा भक्तं प्रत्याख्यातवान्। तेन च पुरा कुमारत्वे शिवानां शब्दं श्रुत्वा सेवकान् पृष्ट्वा ज्ञातशिवाशब्देनोचेऽमून् बद्ध्वानयत ? तैरेकः शिवो बद्ध्वानीतः, स तेन हन्यमानो यथा यथा खीखीति चक्रे तथा तथा सोऽहृष्यत् , शिवश्च हन्यमानो मृतोऽकामनिर्जरया व्यन्तरो भूत्वा विभङ्गज्ञानेनानशनिनं तं स्वघातकं ज्ञात्वा स्वदेहेन खीखीति कुर्वन्नत्ति । राजानशनिनं साधुं ज्ञात्वा रक्षितुं नरान् प्रेषीत् , यावन्नरा आययुस्तावच्छिवो न दृश्यते, गतेषु तेषु पुनस्तं सोऽत्ति । एवं साधुः खाद्यमानः शिवकृतव्यथामत्तिं च सम्यगधिसह्य सिद्धः, एवं सह्यं । उक्तः षोडशो रोगपरीषहः ॥३३॥
रोगिणः शय्यादौ दुस्सहस्तृणस्पर्श इति तं परीषहमाह
अचेलगस्स लूहस्स, संजयस्स तवस्सिणो ।
तणेसु सुयमाणस्स, होज्जा गायविराहणा ॥३४॥ व्याख्या-अचेलकस्य रूक्षाहारत्वात् संयतस्य तपस्विनस्तृणेषु दर्भादिषु शयानस्यासीनस्य वा गात्रविराधना गात्रस्य पीडा भवेत् ॥३४॥ ततः
आयवस्स निवाएणं, अतुला हवइ वेयणा ।
एयं नच्चा न सेवंति, तंतुजं तणतज्जिया ॥३५॥ व्याख्या-आतपस्य धर्मस्य नितरां पातेनाऽतुला वेदना स्यात् , एवं ज्ञात्वा आस्तरणाय तन्तुजं वस्त्रं कम्बलादि तृणैस्तर्जिताः पीडिता अपि न सेवन्ते । एतज्जिनकल्पिकापेक्षं, स्थविरकल्पिकास्तु सापेक्षसंयमत्वाद्वस्त्रं सेवन्ते, तेषां तृणस्पर्शपरीषहः कण्टकादिस्पर्शे, कारणेन तृणक्षेपे सार्द्धद्विहस्तसंस्तरे शयनेन देहेऽपि भवेत् ॥ ।
तृणस्पर्शपरीषहे भद्रर्षिदृष्टान्तः-श्रावस्त्यां जितशत्रो राज्ञः पुत्रो भद्रस्त्यक्तकामभोगः स्थविरान्ते प्रव्रज्य बहुश्रुतः सन् काले एकत्वं प्रपन्नो विराज्ये गतो राजनरैर्हेरिकत्वेन बद्धोऽजल्पन् तक्षित्वासितदर्भः संवेष्ट्य मुक्तो, द| रक्तमिलितैर्दु:खं प्रापितस्तृणपरीषहं सम्यक् सेहे उक्तः सप्तदशस्तृणस्पर्शपरीषहः ॥३५।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org