________________
श्रीउत्तराध्ययनदीपिकाटीका-१ याञ्चायां कदाचिल्लाभान्तरायदोषान्न लभेतेत्यलाभपरीषहमाह
परेसु घासमेसिज्जा, भोयणे परिणिहिए ।
लद्धे पिंडे अलद्धे वा, नाणुतपिज्ज संजए ॥३०॥ व्याख्या-परेषु गृहिषु ग्रासं कवलं एषयेत् भ्रमरवत् , भोजनेऽन्ने सुपरिनिष्ठिते स्वयं सिद्धे सति, माभूत् पूर्वंगमे तदर्थं पाकादिप्रवृत्तनिष्ठा च, ततः पिण्डे लब्धेऽलब्धे वा, अल्पेऽनिष्टे वा लब्धे नानुतप्येत न दूयेत, न हृष्येत वा संयतः ॥३०॥ तथा
अज्जेवाहं न लब्भामि, अवि लाभो सुए सिआ ।
जो एवं पडिसंचिक्खे, अलाभो तं न तज्जए ॥३१॥ व्याख्या-अद्यैवास्मिन्नेव दिनेऽहं न लभे, अपि सम्भावने, श्वः शुद्धपिण्डलाभः स्यात् अन्येधुरन्यतरेधुर्वा, य एवं प्रतिसमीक्षेन विचारयेत् तं अलाभपरीषहो न तर्जयेत नाभिभवेत् ॥
अद्यैवाहं न लभामीति पादे लौकिकमुदाहरणं-वासुदेवसत्यकिबलदेवदारकाश्चाश्वहृता अटव्यां वटाधो रात्रौ स्थिताः, दारक आद्ये यामे जागर्ति, तदा क्रोधः पिशाचरूपेणैत्य दारकं वक्ति भिक्षार्थमेतः सुप्तानद्मि, युद्धं वा देहि ? तेनोचे युद्ध्यस्व ? ततो द्वावपि युद्ध्यतः, दारको यथा यथा तं हन्तुं न शक्नोति तथा तथा रुष्यति, क्रोधोऽपि तथा तथा वर्द्धते, एवं दारकः कृच्छ्रेण याममत्यैत् । द्वितीययामं सत्यकिस्तृतीययामं च बलः कृच्छ्रेण, तुर्ययामे हरिः पिशाचोक्तो जगौ, मामजित्वा मत्सहायान् कथमत्सीति तयोर्युद्धं लग्नं, यथा यथा युद्ध्यति पिशाचस्तथा तथा वासुदेवोऽहो बलवान् मल्ल इति तुष्यति, तथा तथा पिशाचो हीयते, तेनेच्छं क्षपितं क्रोधो लघुर्नीव्यां क्षिप्त्वा मुक्तः, प्रातर्जानुकर्पूरयोः केन घृष्टाः ? इति हरिपृष्टैस्तैरुक्तं पिशाचेन । हरिर्वक्ति स एष कोपः पिशाचो मया शान्तो जित इत्युक्त्वा नीव्या निष्कास्य तेन तेभ्यः सोऽदर्शि । एवमलाभे यो न दूयते तस्याऽलाभदुःखं हीयते, यस्त्वर्तिकृत् स लोभेनाद्यते । अलाभपरीषहे ढण्ढणसुतो दृष्टान्त:-कस्मिंश्चिद् ग्रामे परासुरो विप्रो रानियुक्तो ग्राम्यै राज्ञः क्षेत्राणि खेटयन् भक्तागमेऽपि निघृणस्तान्नाऽमुञ्चत् । राजक्षेत्रं वापयित्वा श्रान्तैः क्षुत्तृषाक्रान्तैः षट्हलशतनियुक्तषट्हालिकशतैर्द्वादशभिर्वृषशतैश्चाऽऽयाते भक्तेऽपि वेलातिक्रमेण बलात् स्वक्षेत्रैकैकां शीतां दापयन्नन्तरायकर्मार्जित्वाऽनालोच्य मृत्वा च भवं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org