________________
४१
द्वितीयं परीषहाध्ययनम् सम्यग्वधपरीषहं सहमानाः केवलाप्त्यासिद्धाः, स्कन्दकः पार्श्वे स्थितः क्षुल्लमपि पालकाऽमुक्तं वीक्ष्य दूनो निदानं कुर्वन् यन्त्रेण सर्वेभ्यः पश्चात् पीडितो मृत्वाग्निकुमारेषूत्पन्नः। इतः स्कन्दकस्य धर्मध्वजं रक्ताक्तं हस्त इति ज्ञात्वा शकुन्याप्तं पुरन्दरयशाग्रेऽपाति, तस्यास्तद्दिने चिन्तासीद्यदद्य साधवः किं न दृश्यन्ते ? तावत्तेन चिह्नन तयाऽज्ञायि यत् साधवो हता इति । तया नृप उक्त आः पाप किमिदमकार्षीः ! दीक्ष्येऽहमिति ध्यायन्ती सा देवैः स्वाम्यन्ते नीताऽदीक्षि । अग्निकुमारेणैत्य तत्पुरं सदेशं दग्धं, तदद्यापि दण्डकारण्यं जातं । एवं तैः साधुभिर्यथा वधपरीषहः सोढः सम्यक् तथान्यैरपि सह्यो न तु स्कन्दकवन्नाध्यास्यः, इत्युक्तस्त्रयोदशो वधपरीषहः ॥२७॥ परैर्हतस्यागदादियाञ्चा स्यादिति याञ्चापरीषहमाह
दुक्करं खलु भो निच्चं, अणगारस्स भिक्खुणो ।
सव्वं से जाइयं होइ, नत्थि किंचि अजाइयं ॥२८॥ व्याख्या-खलु विशेषेण, भो लोका दुष्करं दुरनुष्ठानं नित्यं यावज्जीवं अनगारस्याऽगृहस्य भिक्षोः, यत् सर्वमाहारोपध्यादि ‘से' तस्य याचितं भवति, नास्ति किञ्चिद्दन्तशोधनाद्यप्ययाचितम् ॥२८॥ ततः
गोयरग्गपविट्ठस्स, पाणी नो सुप्पसारए ।
सेओ आगारवासो त्ति, इइ भिक्खू न चिंतए ॥२९॥ व्याख्या-गोरिव चरणं गोचरो, यथा गौआताज्ञातविशेषं मुक्त्वा प्रवर्त्तते तथा साधुभिक्षार्थं, तस्मादग्रं प्रधानं एषणादत्ते, न पुनर्गौरिव यथा तथा, तस्मिन् प्रविष्टो गोचराग्रप्रविष्टस्तस्य पाणिर्हस्तः सुखेन न प्रसार्यते, पिण्डाद्यर्थं हस्तप्रसारणं शुभं न, तेनैव श्रेयान् प्रशस्योऽगारवासो गार्हस्थ्यं तत्र न कश्चिद्याचते, स्वार्जितं दीनादिभ्यो दत्वा भुज्यते, इति पूर्वोक्तप्रकारेण भिक्षुर्न चिन्तयेत् ।।
याञ्चापरीषहे बलभद्रो दृष्टान्त:-रामो बलदेवो हरिशबं वहन् सिद्धार्थबोधित: कृष्णवपुः संस्कार्य स्वयं च परिव्रज्य तुङ्गिकशृङ्गे तपस्तप्यमानस्तृणकाष्ठाहारकेभ्यो भिक्षां लान् ग्रामं वा पुरं नागात् , यथा तेन याञ्चापरीषहो न सोढ एवं नान्यैः कार्य, अन्ये आहुर्बलस्य भिक्षां भ्राम्यतो बहुजनस्तद्रूपेणाक्षिप्तो न किञ्चिदन्यद्वेत्ति, तच्चित्त एवास्थादिति स नगरादिषु नागात्, पान्थेभ्य एव भिक्षां ययाचे, एष याञ्चापरीषहः प्रशस्तः, एवं साधुभिरपि सह्यः, उक्तश्चतुर्दशो याञ्चापरीषहः ।।२९।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org