________________
३९
द्वितीयं परीषहाध्ययनम् मम कार्यं ज्ञाप्यं, कदापि स दुर्गिरा रुष्टो द्विजेन सह योद्धं लग्नः, द्विजेन बलिना क्षुत्क्षामः क्षपको भुव्यपात्यताडि च, रात्रौ सुरी नन्तुमागात्, क्षपकस्तूष्णीमास्त, सुर्योक्तं भगवन् किं मयाऽपराद्धं ? सोऽवक् स त्वया दुरात्मा ममापकारी किं नाशिक्षि ? सोचे मया युवयोर्विशेषः कोऽपि न ज्ञातः, यथा त्वं श्रमणस्तथाऽयं द्विजः, कोपाद् द्वावपि समौ जातो, प्रपन्नं च तत्क्षपकेन, तस्माद्भिक्षुर्न सवलेत् ॥२४॥ यतः
सोच्चा णं फरुसा भासा, दारुणा गामकंटका( याxगा)।
तुसिणीओ उवेहेज्जा, न ताओ मणसी करे ॥२५॥ व्याख्या-श्रुत्वा, णं वाक्यालङ्कारे । परुषाः खरा भाषाः, मन्दसत्त्वाः संयमं दारयन्तीति दारुणाः, ग्रामस्येन्द्रियगणस्य दुःखकृत्त्वात् कण्टकाः, मुक्तिमार्गगतिविघ्नकृत्त्वाद्वा, प्रतिकूलशब्दास्ता भाषास्तूष्णीको मौनी, स कोपात् खरभाषी, उपेक्षत, न ता मनसि कुर्यात्, द्वेषाऽकरणात् ॥
__ आक्रोशपरीषहेऽर्जुनमालाकारदृष्टान्तः-राजगृहेऽर्जुनमालाकारस्तस्य भार्या च स्कन्दश्री:, पुरबहिर्मुद्गरपाणिर्यक्षोऽस्ति, सोऽर्जुनस्य कुलदेवः, अर्जुनस्याराममार्गे एव तद्यक्षौकोऽस्ति, एकदा स्कन्दश्रीरारामेऽर्जुनस्य भक्तं दातुं गता, पुष्पाण्यादाय वलमाना यक्षौकःस्थैर्ललितगोष्ठ्यागतैः षड्भिविटैः सा दृष्टा, ततस्तैः सा यक्षाग्रेऽसेवि, ततस्ते सदापि तां सेवन्ते । अर्जुनो वरैः पुष्पैः सदा मुद्गरपाणिमर्चति, एकदा सा तैर्भुज्यमानाऽर्जुनमायान्तं दृष्ट्वोचेऽर्जुनोऽयमेति ततो यूयं किं मां भोक्षथ ? ततस्तैरस्या इष्टमित्यर्जुनो बद्धः, तदृष्टौ च ते तामसेवन्त । अर्जुनो दध्यौ यदहमेतं यक्षं नित्यमार्च तथाप्यहमस्यैवाग्रे विडम्बितः, तन्नास्त्ययं सत्यो मुद्गरपाणिः, तदा यक्षः कृपया तस्य बन्धान् छित्वाऽयःपलसहस्रमुद्गरं लात्वाऽर्जुनदेहेन तान् षट् नरान् स्त्रीसप्तमानहन् । ।
एवं दिने दिने षट् नरान् स्त्रीसप्तमान् स हन्त्येव । यावत् सप्त हता न स्युस्तावल्लोको राजगृहान्न निरैत् , इतः श्रीवीरस्तत्र समवसृतो, नत्यै न कोऽपि निरैत् , सुदर्शनश्रेष्ठी भक्त्यानिर्भयो निर्गतो नत्यै, दृष्टोऽर्जुनेन, धावितोऽसावुद्ग्राम्य मुद्गरं, सुदर्शनश्चतुःशरणं कृत्वा श्रीवीरं स्मृत्वा साकारं प्रत्याख्याय नमस्कारं स्मरन् कायोत्सर्गेऽस्थात् , अर्जुनस्तं हन्तुमक्षमो भ्रान्त्वा भ्रान्त्वा श्रान्तः, यक्षोऽपि समुद्गरस्तं मुक्त्वा ययौ, अर्जुनोऽधिष्ठातृमुक्तो भुव्यपतत् , कथमिहास्मि ! किं ममेयमवस्थेत्यादि तत्प्रश्ने सुदर्शनेनोक्ते च प्राग्वृत्तान्ते, रेऽहं स पापीति वैराग्यं गतः, ततः सुदर्शनेन सह जिनं नत्वा
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org