________________
३८
श्रीउत्तराध्ययनदीपिकाटीका-१ व्याख्या-उच्चाः शीतरक्षादिगुणैर्वरा, अवचास्तद्विपरीताः, अथवा उच्चावच्चा नानारूपा वा शय्यास्ताभिस्तपस्वी भिक्षुश्च, प्राग्वत् , स्थामवान् शीतादिसहनं प्रति शक्तः, अतिवेलं स्वाध्यायादिवेलातिक्रमं न विहन्यात् यायात् 'हनेर्गतावपि वृत्तेः' अत्राहं शीतादिनार्दित इति स्थानान्तरं नैति । यद्वा वेलातिमन्यकालाधिकां मर्यादां समेतां हर्षखेदाद्यैर्नोल्लङयेत्, सर्व सुखदेयं शय्या सभाग्योऽहमिति हर्षः, शीतादिरक्षकां शय्यामपि न लभेऽभाग्योऽहमिति खेदः, यतः पापदृष्टिविहन्येत शय्यया ॥२२॥ ततः
पइरिक्कुवस्सयं लद्धं, कल्लाणं अदुव पावगं ।
किमेगराय(इं) करिस्सइ, एवं तत्थहियासए ॥२३॥ व्याख्या-प्रतिरिक्तं विविक्तं स्त्र्यादिरहितं उपाश्रयं लब्ध्वा कल्याणं भव्यं अथवा पापकं पांश्वाद्यैरभव्यं, किं ? एकरात्रिर्यत्र तदेकरात्रं सुखं दुःखं वा शय्या करिष्यति ? न किञ्चिदपि । यतो जनः कोऽपि सौधेषु रत्नादिमयेषु वसति, परे च धूल्याकीर्णेषु नित्यं वसन्ति, अस्माकं तु नैकत्र स्थितिः, एवं तत्र सुखदुःखे अधिसहेत, जिनकल्पिक एकरात्रं, स्थविरश्च कतिरात्रीः ॥
शय्यापरीषहे सोमदत्तसोमदेवसाधुदृष्टान्त:-कौशाम्ब्यां यज्ञदत्तो द्विजस्तस्य द्वौ पुत्रौ सोमदत्तसोमदेवौ सोमभूतिमुनिपार्वे प्रव्रज्य बहुश्रुतौ जातो, स्वजनान् दृष्टुमेतो, ते चावन्त्यां गता आसन्, तत्र यान्तौ देशरीत्यदृष्यं द्विजौकस्य जानन्तौ मद्यमादायाऽपातां । तद् ज्ञात्वा सानुतापावनशनं वरमिति ध्यात्वा नदीतटे काष्ठोद्ध्वं पादपोपगमं श्रितो, अकालेन नदीपूरेण काष्ठारूढौ नीतावब्धौ, तत्र ताभ्यां यादोजीवग्रसनादि सोढं । एवं यथायुरधिषह्य तौ शय्यापरीषहं स्वर्गतौ, उक्त एकादशमः शय्यापरीषहः ॥२३।। शय्यास्थितस्य शय्यातरोऽन्यो वाऽक्रोशेदित्याक्रोशपरीषहमाह
अक्कोसेज्ज परो भिक्खू, न तेसिं पडिसंजले ।
सरिसो होइ बालाणं, तम्हा भिक्खू न संजले ॥२४॥ व्याख्या-परोऽन्यो धर्मबाह्यो वा भिक्षु 'धिग्मुण्ड ! किमिहैत: ? केनाहूतोऽसि ? इत्याक्रोशेत्, 'न तेसिं' रूपव्यत्ययात् तस्मै [भिक्षुः] न प्रतिसज्वलेदग्निवन्न दीप्येत, सज्वलनकोपमपि न कुर्यात् , ज्वलंश्च बालानां मूर्खाणां सदृशः स्यात्, क्षपकवत् ।
अत्र बालैः सादृश्ये क्षपककथा-एकं क्षपकं सुरी गुणाकृष्टा नित्यं वन्दित्वोचे
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org