________________
द्वितीयं परीषहाध्ययनम्
३७ ध्यायन् सूर्योक्तो रे दुःशिष्य ! दर्शयामि किं ते गुरुहीलाफलमधुना ? स भीत एत्य गुर्वहिपतितो भूयो भूयोऽक्षामयत् , सूरिभिर्मा भैरित्यधीरि सः, शान्ता च सुरी । अथ सूरिभिर्नवभागादौ स्वविहारे प्रोक्ते स भक्तोऽभूत् । एवं यथा सङ्गमस्थविरैश्चर्यापरीषहः सोढस्तथान्यैः सह्यः, इत्युक्तो नवमश्चर्यापरीषहः ॥१९॥
यथा ग्रामादिष्वप्रतिबद्धत्वेन चर्या कार्या, तथा देहादिष्वप्रतिबद्धत्वेन स्वाध्यायनैषेधिकीपरीषहः सह्य इति तमाह
सुसाणे सुन्नगारे वा, रुक्खमूलेव एगओ । __ अकुक्कुओ निसीएज्जा, न य वित्तासए परं ॥२०॥
व्याख्या-स्मशाने, शून्यागारे शून्यगृहे, वृक्षमूले वा एकको, वा प्रतिमादौ गच्छतीत्येकगः । अकुत्कुचो दुश्चेष्टारहितो, यद्वा कुत्कुचः कुन्थ्वादेहिंसा तद्रूपेण कर्मबन्धहेतुना रहितो हस्तांहिभिरस्पन्दमानो निषीदेत्तिष्ठेत् , न च परमुन्दिरादि वित्रासयेत्, माभूदसंयम इति । इहोपाश्रयात् स्वाध्यायार्थं यत्र गम्यते सा नैषेधिक्युच्यते ॥२०॥ तथा
तत्थ से अच्छमाणस्स, उवसग्गाभिधारए ।
संकाभीओ न गच्छिज्जा, उठ्ठित्ता अन्नमासणं ॥२१॥ व्याख्या-तत्र स्मशानादौ 'से' तस्यासीनस्य तिष्ठतो वा उपसर्गाः स्युस्तदा तानभिधारयेदुपेक्षेत, यथा किं मे दृढचित्तस्यैते कुर्युः ? (पाठान्तरे 'उवसग्गभयं भवे' स्पष्टं) तत्कृतकष्टशङ्काभीत उत्थायान्यदासनं स्थानं न गच्छेत् ।। - नैषेधिकीपरीषहे कुरुदत्तसुतदृष्टान्तः-गजपुरे कुरुदत्तइभ्यसूः स्थविरपार्श्वे दीक्षितो बहुश्रुतो जातः, कदाप्येकत्वप्रतिमावान् साकेतपुरासन्ने चरमपौरुष्यां स प्रतिमया स्थितः, इत एकस्माद् ग्रामाद् गावः स्तेनैर्हतास्तेन मार्गेण च नीताः, अन्वेषकास्तत्रागुस्तैस्तत्र स साधुदृष्टः, तत्र च द्वौ मार्गावास्तां, तैः साधुः पृष्टः केन मार्गेण गावो हृताः ? स नोचे, ते द्विष्टास्तच्छीर्षे मृदा पालि बद्ध्वा चिताङ्गारांश्च क्षिप्त्वा गताः, गजसुकुमालवत् स सम्यक् सेहे नैषेधिकीपरीषहं, एवमन्यैरपि सह्यः, इत्युक्तो दशमो नैषेधिकीपरीषहः ।।२१।।
नैषेधिक्यां स्वाध्यायं कृत्वा शय्यामागच्छेदिति शय्यापरीषहमाह
उच्चावयाहि सिज्जाहिं, तवस्सी भिक्खु थामवं । नाइवेलं विहन्नेज्जा, पावदिट्ठी विहन्नइ ॥२२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org