________________
श्री उत्तराध्ययनदीपिकाटीका - १
व्याख्या - एको रागादिमुक्तोऽसहायश्च प्रतिमादिभृदादिर्वा, लाढयति प्रापयति स्वं एषणीयेनेति लाढः, देश्योक्त्या लाढो वा प्रशस्यः, परीषहानभिभूय जित्वा ग्रामे, नगरे करमुक्ते, निगमे वणिग्वासे राजधान्यां चरेत् ॥१८॥
तथा
३६
कुज्जा परिग्गहं ।
असमाणो चरे भिक्खू, नेव असंसत्तो गिहच्छेहिं, अणिय ( के) ओ परिव्व ॥ १९ ॥
व्याख्या– असमानो न सगर्वो भिक्षुश्चरेत्, यद्वा असमानो प्राकृतेऽसन्निव चरेत्, यत्रास्ति तत्रापि सोऽसन्निव चरेत्, सन् हि सर्वः स्वाश्रयादितप्तिं कुर्यात्, अयं तु न । तथा परिग्रहं ग्रामादिषु ममत्वं नैव कुर्यात्, असंसक्तोऽसंबद्धो गृहस्थैः, अनिकेतोऽगृहो नैकत्रकृतास्पदः, अनियतो वा परिव्रजेत् सर्वतो विहरेत्, नियतविहारे ममता स्यात् ॥
चर्यापरीषहे सङ्गमाचार्यदृष्टान्तः - कोल्लकिरे पुरे सङ्गमाचार्या गच्छयुता दुर्भिक्षे सिंहाचार्यं संस्थाप्य तं सगच्छं दूरे व्यवहारयन् । स्वयं च क्षीणजङ्घाबलत्वात् पुरं नवभागीकृत्य द्रव्यतः पीठफलकादीनां, क्षेत्रतो वसतिपाटकादीनां कालतो मासपरावर्त्तेन, भावतो निर्ममाः सकल्पवर्षाकल्पानस्थुः, पुरसूरी तत्तपसा तुष्टा तानसेवत । देशोनवर्षे सिंहाचार्यादेशाद्दत्ताभिधः शिष्यो विहरन् गुरुशुद्ध्यै तत्रैतः, स्थाने एव स्थितान् गुरून् दृष्ट्वा नित्यवासिनोऽमी न भावतोऽपि मासकल्पं व्यधुरिति सङ्क्लिष्टोऽज्ञातो वसतेर्बहिर्मण्डपिकायां स्थितः, भिक्षायै च गुरोः सार्थे चलितः, गुरवोन्तप्रान्तकुलेष्वभ्रमन्, स तूद्विग्नश्चिन्तयति यदमी मे श्राद्धकुलानि न दर्शयन्ति, ज्ञाततदाकूता गुरवोऽथ श्रेष्ठिनो गृहे गत्वा तत्र रेवत्यात्तं षण्मासीं यावदुदन्तं तत्सुतमङ्गुष्ठाङ्गुलीशब्देन मा रुद इति वाक्येन व्यन्तरीपलायनकरणपूर्वकं स्वस्थं चक्रुः, हृष्टेन श्रेष्ठिना गुरवो मोदकाद्यैर्निमन्त्रितास्तदा गुरवस्तान्मोदकान् दत्ताय दापयित्वा तं व्यसृजन्, दत्तस्तु चिरान्ममैकं कुलमनेन दर्शितं, स्वयं त्वतिविशिष्टगृहेषु यास्यन्तीति ध्यायन् वसतिमेतः, गुरवस्त्वन्तप्रान्ताहारमादाय वसतिमागत्याहारं कृतवन्तः, आवश्यककाले गुरुभिः स ऊचे भिक्षादोषानालोचय ? सोऽवग् भवद्भिः सहैव हिण्डितोऽस्मि, किमालोचयामि ? भवत्सार्थवशान्मयापि चिकित्साधात्रीपिण्डो भुक्त:, सूक्ष्माण्यप्यन्यछिद्राणि सुप्रकाश्यानीति गुरूनवहील्य स दूरं गतो दध्यौ च गुरुः सदेदृग्दोषपिण्डं भुङ्क्ते । अथ सुरी गुरुभक्त्या तच्छिक्षार्थं निशीथे सध्वान्तां वर्षां चकार, स भीतो गुरूनाह क्व यामि ? तैरूचे वत्सेत एहि ? सोऽवग् नेक्षे तमसा वसतिद्वारं, तैरङ्गुल्यऽदर्शि । सा दीपशिखेवाऽदीपि, स दुष्टोऽहो दीपोऽस्यास्तीति
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org