________________
द्वितीयं परीषहाध्ययनम् स्थगित्वा जने नश्यति सति, तं मुनिं तत्राध्वनि समाधिना यान्तं दृष्ट्वा त्यक्तकामोऽयमिति विचिन्त्य स श्रीयकं मन्त्रित्वेऽस्थापयत् । स च श्रीसम्भूतिविजयान्तेऽदीक्षि, घोरं तपश्चाकृत। विहृत्य च गुरवः पाटलीपुत्रं प्रापुस्तत्र त्रयः साधवो गुरून्नत्वा चतुर्मासकादावभिगृह्याऽचलन् , एक: सिंहगुहायां कायोत्सर्गेणान्यो दृग्विषाहिबिले तृतीयश्च कूपफलके चतुर्मासी कायोत्सर्गेण स्थितः, सिंहसौ साधू दृष्ट्वोपशान्तौ ।
स्थूलभद्रश्च कोशागृहे चतुर्मास्यै चलितस्तद्गृहद्वारे च समेत्य धर्मलाभं ददौ । कोशा तुष्टा, नूनं परीषहभग्न एतो भर्तेति विचिन्त्य संमुखमेत्योचे किं कुर्वे ? तत उद्यानगृहे स तदुक्त्याऽस्थात् । रात्रौ सर्वालङ्कारा तत्पार्वे सागात् । तच्चाटुभिः स मेरुरिवाचलो धर्ममूचे। प्रतिबुद्धा सा श्राविकाभूत्, राजदत्तनरं विना ब्रह्म चादृता । वर्षान्ते त्रीन् ऋषीन् क्रमैतान् सूरयः सम्मुखमीषदुत्थाय स्वागतं दुःकरकारका इत्यूचुः, स्थूलभद्रः कोशागृहे सरसभिक्षया चतुर्मासीमतीत्यागात्, तदा सूरयः ससम्भ्रममुत्थायातिदुःकराति-दुःकरकारकागच्छेत्यूचुः । तदा पूर्वे त्रयो मिथो जगुः मन्त्रिभूत्वाद्रागाद् गुरुभ्य एषा तत्प्रशंसा । द्वितीयवर्षासु सिंहगुहर्षिर्वेश्यौकश्चतुर्मास्यै ईर्ष्णयाभ्यग्रहीत् । गुरुभिरुपयुक्तै-रितोऽपि स तत्रागात्, तस्यां वसतौ स्थितश्च । सोदाराङ्गा भूषाभूषिता तस्य धर्मं शुश्राव । स च तद्रूपाक्षिप्तस्तामप्रार्थयत् , सा तु तं नैच्छत् , भृशं प्रार्थ्यमाना सा तद्वोधायोचे लक्षदाने त्वदिष्टं स्यात् । सोऽवक् क्व मे लक्षं ? सोचे नेपालदेशराट् श्राद्धो यतये लक्षमूल्यं रत्नकम्बलं दत्ते, स तत्र गतो दत्तं च तत्तेन, ततो व्यावृत्तोऽरण्ये चौरैर्बद्ध मार्गे तुच्छकोऽवग् लक्षमेति, चौरेशः साधुं दृष्ट्वाऽमुञ्चत् , पुनः शुकोक्त्यैत्यैक्षिष्ट, तत्पार्वे किमप्यदृष्ट्वाऽभयं दत्वा साधुं सद्भावं पृच्छन् दण्डान्तर्वेश्याहरत्नकम्बलमुक्तवन्तं सोऽमुञ्चत् । स चागत्य तत् कोशायै दत्तवान् । तया स दिव्योऽपि पादप्रोञ्छनपूर्वकं क्षालेऽक्षेपि, सोऽवग् मा मुग्धे सर्वोत्तमं विनाशयैनं, सोचे मुने त्वत्संयमोऽपीहक्, क्षालाभमद्देहेन मा दूषयितुमर्हसि, स: बुद्धः 'इच्छामोऽणुसर्द्धि' इत्युक्त्वागाद् गूरून् प्रतिक्रान्तश्च, गुरूभिरूचे वत्सैवं दुःकरदुःकरकारी स्थूलभद्रो यश्चिरपरिचितानपि वेश्याभोगान् नैच्छत् । एवं स्थूलभद्रेण स्त्रीपरीषहः सोढो, न तु सिंहगुहर्षिणा, इत्युक्तोऽष्टमः परीषहः ॥१७॥
एकत्र स्थितितो मन्दसत्वस्य स्त्रीरागः स्यादतो नैकत्र स्थेयं, चर्याविहारः कार्य इति चर्यापरीषहमाह
एग एव चरे लाढे, अभिभूय परीसहे । गामे वा नगरे वावि, निगमे वा रायहाणिए ॥१८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org