________________
श्रीउत्तराध्ययनदीपिकाटीका-१ उत्पन्नसंयमारते: स्त्रीभिर्निमन्त्र्यमाणस्य तदिच्छा स्यादतः स्त्रीपरीषहमाह
संगो एस मणूस्साणं, जाओ लोगंमि इथिओ ।
जस्स एआ परिन्नाया, सुकडं तस्स सामण्णं ॥१६॥ व्याख्या-सज्जन्ति आसक्तमनुभवन्ति रागादिवशगा अत्रेति सङ्गो लेपः, एष स्त्रीनामा मनुष्याणां नृणां मक्षिकाणां श्लेष्मेव स्यात् , ततो याः काश्चन मानुष्यो देव्यस्तिरश्चो लोके तिर्यग्लोकादौ स्त्रियः सन्ति, एता एव हावभावादिभिरन्त्यतासक्तिहेतवोऽन्यथा गीताद्यपि सङ्गहेतुः, मनुष्योक्तेरेषामेव मिथुनसझाधिक्यात् । यस्यैताः स्त्रियः परीति सर्वेण ज्ञाता ज्ञपरिज्ञया इह प्रेत्य चानर्थहेतुत्वेन विदिताः प्रत्याख्याताः, सुकृतं सुष्टुकृतं (पाठान्तरे 'सुकरं' सुखकार्य) तस्येति तेन श्रामण्यं व्रतम् ॥१६॥ अवद्यत्यागो हि व्रतं, रागद्वेषौ चावा, न च स्त्रीभ्यः परं रागद्वेषमूलं, अत आह
एवमादाय मेहावी, पंकभूया उ इत्थीओ ।
नो ताहि विहन्निज्जा, चरिज्जत्तगवेसए ॥१७॥ व्याख्या-एवमाज्ञाय ज्ञात्वा मेधावी अवधारणशक्तिमान् पङ्कभूता मुक्तिपथं यातां विघ्नत्वेन मालिन्यहेतुत्वेन च, तुः एवार्थः, (पाठान्तरे-'एवमादाय मेहावी । जहा एया लहुस्सगा') एवं वक्ष्यमाणार्थमादाय बुद्ध्या लात्वा, यथा एताः स्त्रियस्तुच्छाशयादिना लघ्वयः, नैव ताभिः स्त्रीभिर्विहन्यात् । विशेषेण संयमायुर्घातेनात्मानं हन्यात् । चरेत् धर्मानुष्ठानं आत्मगवेषकः, कथमात्मा भवात्तार्य इति । यद्वात्मानं गवेषयते इत्यात्मगवेषकः, चित्रालङ्कारा अपि स्त्रियो दृष्ट्वा तदृष्टिन्यासस्य दुष्टतां ज्ञात्वा आशु ताभ्यो दृग्वालनादमेध्यतादि ध्यात्वा आत्मान्वेष्टैव मुनिः स्यात्, यतः-"चित्तभित्तिं न निज्झाए" [ द.अ.८/गा.५५] ॥
स्थूलभद्रवत् स्त्रीपरीषहः सह्यो, न तु स्पर्धाकृत् साधुवन्न सह्यः, तत्कथैवंक्षितिप्रतिष्ठितं प्राक्, ततः काले चनकपुरं, ऋषभपुरं, कुशाग्रपुरं जातं, ततो राजगृहं, ततश्चम्पा, ततः पाटलीपुत्रं जातं, तावद् ज्ञेयं यावच्छकडालमृतेरनु नन्दः श्रीयकमाह कुमार ! अमात्यत्वं लाहि ? सोऽवग् मद्भाता ज्येष्टः स्थूलभद्रः कोशागृहे द्वादशवर्षं यावदस्ति, स राज्ञाहूयोक्तो मन्त्रिव्यापार लाहि ? सोऽवग् विमृशामि, राजाह अशोकवनीं गत्वा विमृश ? स तत्र गतो विचारितवानहो राज्यकार्याक्षिप्तानां बहुसावा बहुनरकान्तं व्यापारपारवश्यमस्ति, पितुरप्यस्यमादेव मरणं जातं, अतो भोगा: कटुफला इति वैराग्यात् पञ्चमुष्टिलोचं कृत्वा, कम्बलरत्नेन च धर्मध्वजं धृत्वा राज्ञः पार्श्वमेत्याह एतन्मयाऽचिन्ति, राजाह सुचिन्तितं, ततोऽसौ निर्ययौ, असौ वेश्यौको याति गुरुपार्वे वेति ज्ञातुं राट् सौधारूढोऽपश्यत् । पथि मृतेभगन्धान्मुखं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org