________________
द्वितीयं परीषहाध्ययनम् पुनः सोऽप्राक्षीत् क्वाहमुत्पत्स्ये ? स्वाम्याह कौशाम्ब्यां त्वं मूकस्य भ्राता भावी, मूकाच्च ते बोधिरस्ति । ततो देवोऽर्हतं नत्वा कौशाम्ब्यां मूकान्तिकं गतो बहु स्वं तस्मै दत्वोचे अहं त्वन्मातुर्गर्भे उत्पत्स्ये, तस्याश्चाम्रभक्षणे दोहदो भावी । गिरौ च मया सदापुष्पफल आम्रः कृतोऽस्ति, ततो दोहदसम्भवे त्वं मातुः पुरो वर्णान् लिखेश्चेत् पुत्रः स्यात्तं च मह्यं दत्से तदाम्रफलमानीय ददे, इच्छं, मां त्वदायत्तं कृत्वा जातं च वयःस्थं धर्मं बोधयेरिति । मूकस्तत्प्रतिपेदे । गतो देवोऽन्यदा च्युत्वा च तद्गर्भे उत्पन्नोऽकाले चाम्रफलदोहदो मातुर्जातस्तथैव च तेनापूरि । काले च पुत्रो जातः, मूकस्तमर्हद्दत्ताख्यं सोदरं बालं साध्वज्रिषु पातयति, परं स राटिं दत्ते रोदिति, न च वन्दते ।
__ ततो मूकः श्रान्तो दीक्षितः स्वर्गतोऽवधि प्रायुक्त, दृष्टो भ्रातोढचतुःस्त्रियो विषयासक्तः, देवेनास्य जलोदरं कृतं, वैद्याः सर्वे भग्नाः, स तु नोत्थातुमपीष्टे । अथ स सुर: शबररूपः सर्वान् व्याधीन् शमयामीत्युद्धोषयन् भ्राम्यति । अर्हद्दत्तेन तं दृष्ट्वोक्तं मां निरुजं कुरु ? सोऽवग् यदि मामेव सेवसे तदा सज्जयामि, तेनोचे एवमप्यस्तु , ततः सज्जितोऽसौ तेन सहाचलत्तेनास्य शस्त्रकोस्थलो दत्तो माययाऽतिभारः, अथैकस्मिन् देशे साधवः पठन्तस्ताभ्यां दृष्टास्तदा शबरेणोचे दीक्षया त्वं भारान् मुच्यसे, तेनाचिन्त्यस्माद्भाराद्दीक्षा वरमिति तेनोक्ते स साध्वन्तिके दीक्षापितः, देवः स्वर्ययौ, स चोत्प्रव्रज्य गृहं ययौ । देवेनावधिना तथा ज्ञात्वा तथैव पुनः स जलोदरीकृतः, तथैवाऽरुत्कृतो भारादिक्रमेण दीक्षितः, पुनरुत्प्रव्रजितः, एवं वारत्रयं जातं । तुर्यवेलायां देवस्तेन समं तृणभारं लात्वा प्रज्वलद् ग्रामं प्रविष्टः, तदा तेनोक्तं प्रज्वलन्तं ग्रामं सतृणभार: किं प्रविशसि ? सोऽवक् किं त्वं मानमायालोभप्रदीप्तं गृहवासं प्रविशसि ? तथापि न स प्रबुद्धस्ततो द्वावग्रे यातः, देवोऽटव्यामुत्पथेन यांस्तेनोचे कि मार्ग मुक्त्वोन्मार्गेण यासि ? देवोऽवक् किं त्वं मुक्तिमार्ग मुक्त्वा संसाराटवीं प्रविशसि? तथापि स न बुद्ध्यते, अथ क्वापि चैत्ये तेन व्यन्तरसुरोऽर्चितः सन्नधः पतंस्तस्मै दर्शितः, स वक्ति अहो अधन्यो व्यन्तरोऽयं यो यथा यथार्यते तथा तथाऽधः पततीति, देवोऽवगहो त्वमप्यधन्य एव, यतो वारंवारमर्च्यस्थाने प्रापितोऽप्युत्प्रव्रजसि । तेनोचे कस्त्वमसि ? तदा देवेन मूकरूपं दर्शितं, पूर्वभवस्तस्योक्तः, सोऽवक्कोऽत्र प्रत्ययः ? ततो देवस्तं वैताढ्ये सिद्धायतने नीत्वोचे त्वया देवत्वे मम सङ्केतितं यद्यहं धर्मे न सम्बुद्ध्येयं तदा मम कुण्डलयुगं मन्नाममयं त्वं दर्शयेरित्युक्त्वा तेन सिद्धायतनपुष्करिणीक्षिप्तं तच्चादर्शि, तद् दृष्ट्वा स जातिं स्मृत्वा सम्बुद्धोऽदीक्षि । संयमे च तस्य रतिर्जाता, प्रागरतिरभूत् । एवमरतिपरीषह: सह्यः, उक्तः सप्तमोऽरतिपरीषहः ।।१५।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org