________________
३२
श्रीउत्तराध्ययनदीपिकाटीका-१ राजर्षिः श्रुत्वा दध्यौ योऽवन्त्यां राजसूः साधूद्वेजकः स मभ्रातृव्यः संसारं मा भ्रमत्विति गुरूनापृच्छ्यावन्त्यां स ययौ । नताश्च तेन तत्रार्यराद्धाः क्षपकाः, वेलायां युवराजसाधुभिक्षार्थं चलितः, साधुभिः स्थापितो नास्थात्, एकस्मिन् गृहदशिके मागिते तैः क्षुल्लको दत्तः, तेन गृहाणि दर्शयता 'दर्शय तत्प्रत्यनीकगृहमिति जल्पन्' स राजगृहे नीतः, युवराजमुनिरथ भ्रातृगृहेऽक्षुब्धः प्रविष्टः, पुरोधोराजसूभ्यामुद्धताभ्यां दृष्टः, उत्थितौ तौ, साधुर्महत्स्वरं धर्मलाभं ददौ। तौ शठावेत्य हास्येनोचतुः साधो गातुं वेत्सि ? सोऽवग् वेद्मि, युवां वाद्यं वादयतं यथाहं गायामि । तौ तूर्यवादने प्रवृत्तौ परं न तु जानीतः, साधुनोचे रे कौलिकौ न किञ्चिज्जानीथः, तौ रुष्टौ साधोविलग्नौ, साधुना नियुद्धं जानता प्राक्कुटित्वा तदङ्गानि सन्धित उत्तारितानि, तौ हन्यमानावाराटि मुञ्चतः, परिजनो वेत्ति एताभ्यां कुट्यमानो यतिराराटि विधत्ते, साधुर्गतः, तन्त्रिणा तथावस्थौ तौ वक्तुमशक्तौ निश्चेष्टौ पश्यन्तौ दृष्टी, राज्ञः पुरोधसश्चोक्तं, ताभ्यां तौ तथा दृष्ट्वा ज्ञातं नूनं केनापि साधुनैवं कृतौ । तन्त्रियुतो राजाऽार्यराद्धपार्श्वमेत्यांह्योः पतितः, प्रोवाच च पूज्याः प्रसीदत पुत्रौ च जीवयत ? ते ऊचुः राजन्न विद्मोऽमुं वृत्तान्तं, अमुं प्राघूर्णकं पृच्छ ? राजोत्थाय तदभ्योः पतितस्तेनोचे धिक् ते राजत्वं यत्त्वं स्वसुतानपि न निगृह्णासि ! पश्चाद्राज्ञा बन्धुं ज्ञात्वा भक्त्या प्रसादयितुमारेभे । सोऽवग् यदीमौ प्रव्रजेतां तत्सज्जयामि नान्यथा । राज्ञा सपुरोधसा ताभ्यां च तत्स्वीकृतं । साधुना लोचं कृत्वा तौ सज्जितौ दीक्षितौ च । राजाङ्गजो निःशहूं संयममारराध, पुरोघःपुत्रः संयम पालयन्नपि जातिमदाबलाद्दीक्षितोऽस्मीति दध्यौ । द्वावपि स्वर्गतौ ।
___ इतः कौशाम्ब्यां तापसाख्यः श्रेष्ठी मृत्वा स्वगृहे शूकरोऽभूज्जातिस्मरः, स निजे एव श्राद्धाह्नि पुत्रैर्हतो गृहेऽहिर्जातिस्मरोऽभूत्, मा गृहजनान् हन्त्वेष इति पुनः सुतैर्हतः पुत्रपुत्रो जातो, जाति स्मृत्वा कथं स्नुषामम्बां पुत्रं पितरं च वच्मीति मौक्यं श्रितोऽवर्द्धत, मातृपितृकृतमौक्योपचारा न लग्नाः, अन्यदा चतुर्जानिनः स्थविरास्तत्र समवसृतास्तैमूकबोधाय तद्गृहे प्रहितौ साधू गुरूक्तां गाथामेतां मूकाग्रेऽवक्ताम्
तावस किमिणा मूय-व्वएण पडिवज्ज जाणिउ धम्मं ।
मरिऊण सूयरोरग-जाओ पुत्तस्स पुत्तो ति ॥१॥ [ उ.प./गा.३०५ ] स्वभावान् श्रुत्वा स विस्मिततस्तौ प्रणम्य कथं युवां जानीथ इति पप्रच्छ, तावूचतुर्गुरवो जानन्ति, ततः स ताभ्यां सहोद्याने गत्वा गुरून्नत्वा श्राद्धोऽभूत् । इतः स पुरोहितसुतदेवो विदेहेऽर्हन्तं पप्रच्छ किमहं सुलभबोधिरुत दुर्लभबोधिः ? स्वाम्यूचे दुर्लभबोधिकोऽसि,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org