________________
द्वितीयं परीषहाध्ययनम् किमत्र बह्वी निर्जरा ? ते ऊचुर्बाढं, सोऽवक् तर्हि साधुभिः सहाहमपि वहामि । तैरूचैऽत्रोपसर्गा उत्पद्यन्ते, बाला विलगन्ति, यदि सोढुं शक्नोषि तदोह्यतां, यदि च सम्यग् नाधिसहसे तदास्माकं न सुन्दरं स्यादेवं च स स्थिरीकृतः, अथ ते साधुमुत्पाट्य चलिताः, पृष्टतः संयता अप्युत्थितास्तावता सङ्केतितबालविलग्य तस्य वृद्धस्य कटीपट्टको निष्कासितः, स लज्जाया मृतकं मुञ्चन्नन्यैरुक्तो मा मुञ्च ? तत्र तस्यान्येन साधुना मानोपेतं वासः कटिपट्टक इव कृत्वा दवरकेण बद्धं । स मार्गे मां प्रेक्षन्ते स्नुषाद्यास्तथाप्युपसर्गभीतस्तमुवाह । आगतश्च गुरुभिरूचे किमार्यैतत् ? सोऽवगुपसर्गोऽभूत् , सूरिणोचे आनयत शाटकं ? सोऽवक् किमथो शाटकेन ? 'जं दट्ठवं तं दिटुं'ति चोलपट्ट एवास्तु । एवं तेन पूर्वमचेलपरीषहो न सोढः पश्चाच्च सेहे । एवं सह्यः, उक्त: षष्ठोऽचेलपरीषहः ॥१३॥
अचेलस्याप्रतिबद्धविहारिणः शीतादिभिररतिः स्यादित्याह
गामाणुगामं रीयंतं, अणगारं अकिंचणं ।
अरई अणुप्पविसिज्जा, तं तितिक्खे परीसहं ॥१४॥ व्याख्या ग्रामो जिगमिषितः, अनुग्रामश्च तन्मार्गानुकूलः, एवं पुराद्यपि, ग्रामानुग्राम रीयमानं विहरन्तं अनगारं, नास्य किञ्चन प्रतिबन्धास्पदं धनहेमाद्यस्तीत्यकिञ्चनं नि:परिग्रहं प्रति यदि अरतिः संयमाऽधृतिरनुप्रविशेत् मनो भिन्द्यात् तामरति परीषहं स तितिक्षते सहते ॥१४॥ यत:
अरई पिट्ठओ किच्चा, विरए आयरक्खिए ।
धम्मारामे निरारंभे, उवसंते मुणी चरे ॥१५॥ व्याख्या-अरतिं पृष्टतः कृत्वा विरतो हिंसादेः, आत्मा रक्षितो दुर्गतिहेतोरपध्यानादेरनेनेत्यात्मरक्षितः, आयो वा ज्ञानादिलाभो रक्षितोऽनेनेत्यायरक्षितो, धर्मे आरमते रतिमान् स्यादिति धर्मारामः, यद्वा धर्म एवानन्दहेतुतया पाल्यतया वाऽऽरामो धर्मारामस्तत्र स्थितः, निरारम्भ उपशान्त एवंविधो मुनिश्चरेत् संयमाध्वनि, न पुनरुत्पन्नारतिरवधावनेच्छु: स्यात् ॥
अरतिपरीषहे अर्हद्दत्तकथा-अचलपुरे जितशत्रुराट् , तत्सुतो युवराट् राद्धाचार्याणां पार्वे धर्मं श्रुत्वा दीक्षां जग्राह । तेन सत्रा विहरन्तो गुरवोऽगुस्तगरां पुरीं । राद्धाचार्याणां स्वाध्यायशिष्या आर्यराद्धाः क्षपका अवन्त्यां सन्ति, तत्साधवस्तगरामगुः, राद्धाचार्यैरवन्त्यां कं निरुपसर्गमस्तीति पृष्टे ते आहुः, नृपपुरोध:पुत्रौ साधूनुद्वेजयतः, तद्युव
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org