________________
३०
यतः
एगया अचेल होइ, सचेलयावि एगया । एयं धम्मं हियं नच्चा, नाणी नो परिदेव ॥ १३ ॥
श्रीउत्तराध्ययनदीपिकाटीका -१
व्याख्या - एकदा जिनकल्पे, स्थविरकल्पेऽपि दुर्लभवस्त्रादौ निमित्तं विना प्रावरणे जीर्णादिवस्त्रत्वे वाऽचेलको भवति । ( पाठान्तरे - 'अचेले सइयं होइ' स्वयमेव न तु पराभियोगतोऽचेलो भवति) सचेलः सवस्त्रश्चाप्येकदा स्थविरकल्पाद्यवस्थायां स्यात्, एतदित्यवस्थौचित्येनोभयं अचेलत्वं सचेलत्वं प्रत्युपेक्ष्याग्न्याद्यारम्भवारकत्वाभ्यां धर्माय हितं ज्ञात्वा, ज्ञानी, 'नग्ना एव तिर्यग्नारका' इति बोधात् शीतादौ किं मे शरणं ? इति नो परिदेवयेत् ॥
अचलेपरीषहे कथा सोमदेवर्षे: - दशपुरपुरे सोमदेवः पुरोहितो, रुद्रा भार्या, तयोरार्यरक्षितफल्गुरक्षितौ पुत्रौ आर्यरक्षितस्तो सलिपुत्राचार्याणामन्ते प्रव्रज्य श्रीवज्रस्वामिसमीपे नवपूर्णानि साधिकान्यधीत्य लब्धाचार्यपदः फल्गुरक्षितानुग्रहाद्दशपुरं प्राप्तस्तत्र च तेन स्वजनवर्गोऽदीक्षि मातृभ्रातृभगिनीभागिनेयादिः, सोमदेवस्तु पुत्रानुरागेणार्यरक्षितसूरिभिः सहास्थात्, परं पुत्रीस्नुषादीनां पुरो नग्न इव कथं स्थास्यामीति न प्रव्रजति, आचार्यास्तमूचुर्दीक्षया जन्मफलं लात ? सोऽवक् चेद्वस्त्रशाटकच्छत्रपादत्राणयज्ञसूत्रकुण्डिकाद्यनुमन्यसे तदाहं दीक्ष्ये, गुरुभिस्तदपि प्रतिपद्य सोऽदीक्षि, चरणकरणस्वाध्यायादिनिपुणश्च चक्रे । अन्यदिने गुरवश्चैत्यनत्यै गताः, तदा तच्छिक्षितलेखशालिकाः सर्वसाधून् क्षुल्लान्तान् तं त्यक्त्वाऽवन्दन्त, तदा वृद्धस्तदऽनत्या रुष्टस्तानाह रे मत्पुत्रपौत्रदौहित्रमुखान् बालानपि यूयं वन्दध्वे, मां च न, तत्किमहं न दीक्षितोऽस्मि ? ते ऊचुः किं दीक्षितानां उपानत्करकब्रह्मसूत्रच्छत्रकानि स्युः ? तदा तेनाचिन्ति एतेऽपि मे चोयणां ददति तर्हि मुञ्चामीति गुरुष्वागतेषु नत्वोचे भगवन् छत्रकं मया मुक्तं, तैरूचे शुभं । पुनरेकदा बाल श्राद्धैस्तस्मिन्ननते किमहं न दीक्षितोऽस्मीति पृच्छानन्तरं तैरूचे त्वत्पार्श्वे करकोस्तीत्युक्ते सोऽपि तेन मुक्तः, एवं यज्ञसूत्रादिसर्वं मोचितः परं कटिपट्टकं तु न मुञ्चति । अथान्यदा तु सर्वान् वन्दामहे कटीपट्टकघरमेनं मुक्त्वेति बालश्राद्धैरुक्तं, स रुष्ट आह रे मां मा वन्दध्वं परं कटीपट्टकं न मोक्ष्ये । अथान्यदा कोऽपि तत्र साधुर्भक्तं प्रत्याख्याय मृतस्तदा तस्य कटीपट्टकत्याजनार्थं गुरुभिरूचे यः साधुं वहति तस्य महालाभः स्यात् । तत्र पूर्वदीक्षिताः संकेतात् पूर्वमुत्थिता वयं वहाम इति ब्रुवन्तस्तदाचार्यैरूचेऽस्मत्स्वजनाः किं निर्जरां नाप्नुयुर्यतो यूयं सर्वेऽप्युत्थिताः !! वयमपि वहाम एव । तदा वृद्ध उवाच पुत्र !
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org