________________
२९
द्वितीयं परीषहाध्ययनम् इत्यादि सावद्ययोगं प्रत्याख्याय चतुःशरणादि कृत्वा तप्तशिलायां पादपोपगमने स्थितोऽसौ मुहूर्तेन मृक्षणवद्विलीनः सुध्यानः स्वर्गतः, पूर्वं तेनोष्णपरीषहो न सोढः, पश्चात् सम्यक् सेहे, एवमन्यैः सह्यः, उक्तस्तुर्य उष्णपरीषहः ।।९।। ग्रीष्मादनु वर्षासु दंशादयः स्युरित्याह
पुट्ठो अ दंसमसएहि, समरेव महामुणी । __नागो संगामसीसे वा, सूरो अभिहणे परं ॥१०॥
व्याख्या-महामुनिः चः पूत्तौ, दंशमशकैयूँकाद्यैश्च स्पृष्टः, सम एव स्पृष्टाऽस्पृष्टावस्थयोस्तुल्य एव स्यात् । रेफ: प्राकृतत्वात्, व इवार्थे भिन्नक्रमश्चेति, क इव ? नाग इव हस्तीव, यथा हस्ती शरैस्तुद्यमानोऽपि सङ्ग्रामशीर्षे रणशिरसि शूरः परा क्रमवान् स्यात् , यद्वा शूरो योधस्ततोन्तर्भावितोपमार्थत्वाद्वाशब्दस्य च गम्यत्वात् शूरवद्वा परं शत्रुमभिहन्याज्जयेदंशादीन् दंशादिभिस्तुद्यमानोऽपि ॥१०॥ यथा जयेत्तथाह
न संतसे न वारिज्जा, मणंपि न पदूसए ।
उवेह न हणे पाणे, भुंजते मंससोणियं ॥११॥
व्याख्या-न सन्त्रसेत् दंशादिभ्यो नोद्विजेत्, तान्न वारयेत्, तुदतां माभूत् पीडा मामेषामिति आस्तां वचनादि, मनोऽपि न प्रदूषयेत्, न दुष्टं कुर्यात् , किन्तूपेक्षेत औदासीन्येन पश्येत् प्राणान् प्राणिनो, मांसं रक्तं च भुञ्जानान्न हन्यात् ॥
__ दंशमशके कथा श्रमणभद्रमुनेः-चम्पायां जितशत्रो राज्ञः सुतः श्रमणभद्रो युवराजो धर्मघोषगुरोर्धर्मं श्रुत्वा प्रव्रज्यैकाकिप्रतिमां प्रपन्नोऽधो भूमौ विहरन शरत्कालेऽटव्यां प्रतिमास्थो रात्रौ मशकैर्भक्ष्यते, स तान्न प्रमार्जयत् सम्यक् सेहे, पीतशोणितो मृतः स्वर्गतः, एवमधिसह्यं । उक्तः पञ्चमो दंशपरीषहः ॥११॥ मशकाद्यद्दितो जीर्णवस्त्र सन् वस्त्रार्थी न स्यादित्याह
परिजुन्नेहिं वच्छेहिं, होक्खामि त्ति अचेलए ।
अदुवा सचेलए होक्खं, इति भिक्खू न चिंतए ॥१२॥ व्याख्या-वस्त्रैः परिजीर्णैः समन्तात् हानिमुपगतैरहमचेलकञ्चलहानो भविष्यामि, अल्पदिनभावित्वादेषामिति दैन्यं, अथवा सचेलकश्चलान्वितो भविष्यामि, जीर्णवस्त्रं हि मां दृष्ट्वा कश्चित् श्राद्धो वस्त्राणि दास्यतीति हर्ष भिक्षुर्न चिन्तयेत् ।।१२।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org