________________
द्वितीयं परीषहाध्ययनम्
२७ व्याख्या-'चरन्तं' ग्रामानुग्रामं मुक्तिपथे वा व्रजन्तं, 'विरयं' संसाराद्विरतं, 'लूह' स्नानस्निग्धभोजनत्यागेन रूक्षं साधु एकदा शीतादिकाले शीतं स्पृशति, तदा मुनिरतिवेलं वेलां स्वाध्यायादिसमयमतिक्रम्येत्यर्थः, शीतभीतः स्थानान्तरं न गच्छेत् । 'सोच्चा' श्रुत्वा, णं वाक्यालङ्कारे, जिनशासनं जिनागमं, अन्यो जीवोऽन्यो देहस्तीवाश्च नरकादिषु शीतवेदना जीवैर्भुक्ता इत्यादि चिन्तयेत् ॥६॥ तथा
न मे निवारणं अत्थि, छवित्ताणं न विज्जए ।
अहं तु अग्गि सेवामि, इइ भिक्खू न चिंतए ॥७॥ व्याख्या-'मे' मम शीतवातादेर्निवारणं सौधादि नास्ति, 'छवित्ताणं' त्वक्शरणं वस्त्रकम्बलादि न विद्यते, शीतापास्तये चाग्नि सेवे इत्यपि भिक्षुर्न चिन्तयेत्, चिन्तानिषेधे सेवनं दुरापास्तमेव ।।
शीते उदाहरणं-राजगृहे चत्वारो वयस्याः श्रीभद्रबाहोरन्ते धर्मं श्रुत्वा दीक्षिताः, बहुश्रुता जाताश्च, एकाकिप्रतिमां प्रपन्नाः, एकदा सर्वे विहरन्तो हेमन्ते राजगृहं प्राप्ताः, तेषामयं कल्पो यत्र यस्य चरमा पौरुषी स्यात्तेन तत्र प्रतिमया स्थेयमिति । ते चत्वारोऽपि भिक्षाचर्यां कृत्वा तृतीयपौरुष्यां निवृत्त्या वैभारे गम्यमिति विचिन्त्य चलिताः, एकस्य वैभारगुहाद्वारे, द्वितीयस्योद्याने, तृतीयस्योद्यानासन्ने, चतुर्थस्य च पुरोपान्ते चरमा पौरुषी जाता । ते तत्रैव क्रमेण कायोत्सर्गेऽस्थुः, तदा महाशीतेऽद्रिवाते वाति मेरुवदकम्पाः शीतं सम्यक् सहमाना रात्रेराद्यद्वित्रितुर्ययामेषु क्रमान्मृत्वा स्वर्गताः, मरणसमाधिप्रकीर्णके एते श्रीभद्रबाहुनाम्नः पूर्वसूरेः शिष्याः शीतात् सिद्धाः, एवं शीतपरीषहः सह्यः, उक्तस्तृतीयः शीतपरीषहः ॥७॥ शीतविपक्षमुष्णं, शीतलॊरनु ग्रीष्मे उष्णमिति वा तत्परीषहमाह
उसिणपरितावेणं, परिदाहेण तज्जिए ।
प्रिंसु वा परितावेणं, सायं नो परिदेवए ॥८॥ व्याख्या-उष्णं उष्णवद्भशिलादि, तेन परितापस्तेन, तथा परिदाहेन, बहि: स्वेदमलाभ्यां वह्निनाऽर्ककरैर्वा, अन्तश्च तृष्णया, तर्जितोऽतिपीडितः, 'धिंसु वा' ग्रीष्मे वा सरदि वा परितापेनार्ककरादिजेन तर्जितः सातं सुखहेतुन् प्रति न परिदेवेत, हा कदा शीतांशुर्भावीति |८||
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org