________________
द्वितीयं परीषहाध्ययनम्
२५ शिराभिः संततो व्याप्तो धमनीसन्ततः, ईदृगवस्थोऽपि अशनपानस्य मात्रां परिमाणं जानातीति मात्रज्ञः, न लौल्यान्मात्राधिकाहारः, तथा अदीनमना अनाकुलितचित्तश्चरेत् संयमाध्वनि यायात् , ततः क्षुधादितो नवकोटीशुद्धाहारावाप्तावपि लौल्यान्नातिमात्रोपभोगी, तदप्राप्तौ च न दैन्यवानित्येवं क्षुत्परिषह्यमाणः क्षुत्परीषहः सोढः स्यात् ।
क्षुत्परीषहे हस्तिमित्रकथा यथा-उज्जयिन्यां हस्तिमित्रो गृहपतिर्हस्तिभूतिसुतेन सह प्रव्रज्य कदापि साधुभिः सह भोजकटं प्रति प्रस्थितः, अटव्यां तस्यांहि कण्टकेन विद्धः, स चलितुमशक्तः, प्राणान्तां वेदनां ज्ञात्वैकत्राद्रिदर्यां स्थित्वा भक्तं प्रत्याचख्यौ, सर्वसाधून् भक्त्या स क्षामयित्वा भोजकटं प्रति तानचालयत् । क्षुल्लस्तत्पार्वे स्थाष्णुरपि बलात्तैश्चालितो दूरं गत्वा तान् वञ्चयित्वा व्याघुट्यागात् , पितुः पार्वे च स्थितस्तत्र स साधुस्तदैव वेदनया विपद्य शुभध्यानान्मृतो महद्धिर्देवो जातः, क्षुल्लस्तं मृतं न वेत्ति, लब्धनिद्र एवायमस्तीति वेत्ति । स च सुरः प्रयुक्तावधिः क्षुल्लककृपया स्वदेहमाश्रित्य क्षुल्लमूचे वत्स भिक्षायै याहि ? तेनोचे क्व ? सोऽवगेते वनवृक्षा दृश्यन्ते, एतन्निवासिनो जनास्तव भिक्षां दास्यन्तीति । स तथेत्युक्त्वा तत्र गत्वा धर्मलाभं ददौ, ततो वृक्षाधः सालङ्कारो हस्तो निर्गत्यास्मै भिक्षां दत्ते, स एवं दिने दिने भिक्षां गृह्णन् साधुदेहस्थसुरेण सहालापपरोऽस्थात् , अथ ते साधवस्तत्र देशे दुर्भिक्षे जाते तेनैव पथा चलिता द्वितीयवर्षे तामटवीमगुः, क्षुल्लो दृष्टस्तैः पृष्टः क्व तिष्ठसि ? सोऽवक् यत्र क्षान्तकोऽस्ति, उक्तश्च भिक्षालाभस्ततस्ते तत्र गताः, दृष्टं च साधोः शुष्काङ्गं, तैतिं देवीभूतेन साधुना कृपा कृता, तत्र क्षान्तेन सोढः क्षुत्परीषहो, न क्षुल्लेन, अथवा क्षुल्लेनापि सोढः, यतोऽस्य साधून् मुक्त्वा क्षान्तपार्श्वमागच्छतो नायं भावोऽभूद्यदहमिह भिक्षां न लप्स्यामि, सचित्तफलाद्याहरिष्यामि चेति । ततो ज्ञात्वा प्रतिक्रान्तं क्षुल्लं साधवः सहाकार्यवन्त्यां गताः, यथा ताभ्यां क्षुत्परीषहः सेहे तथान्येनापि सह्य इत्युक्तः क्षुत्परीषहः प्रथमः ॥३॥ भिक्षार्थमटतस्तृट् स्यादिति तत्परीषहमाह
तओ पुट्ठो पिवासाए, दोगुंछी लद्धसंजमे ।।
सीओदगं न सेविज्जा, वियडस्सेसणं चरे ॥४॥ व्याख्या-ततः क्षुत्परीषहान्तको वा भिक्षुः पिपासया स्पृष्टोऽभिद्रुतः, जुगुप्सी अनाचारस्य, 'लद्धसंजमे' लब्धसंयमो । यद्वा लज्जया सम्यग् यतते कृत्यं प्रत्याहतो भवतीति लज्जासंयतः शीतोदकं सचित्ताम्बु न सेवते, न पानादिना भजेत् । 'वियडे त्ति' विकृतस्याग्न्यादिना विकारं प्रापितस्याऽचित्तोददस्यैषणाय गवेषणार्थं 'चतुर्थ्यर्थे
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org