SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ २४ श्रीउत्तराध्ययनदीपिकाटीका -१ उपाश्रयः, आक्रोशपरीषहः | १२ | वधपरीषहः | १३ | याचना याञ्चापरीषहः | १४ | अलाभपरीषहः | १५ | रोगपरीषहः | १६ | तृणस्पर्शपरीषहः | १७ | जल्लपरीषहः | १८| जल्लो मलः, सत्कारो वस्त्रादिभिः पूजनं, पुरस्कारोऽभ्युत्थानादिसंपादनं, तावेव परीषहः सत्कारपुरस्कारपरीषहः ।१९ | प्रज्ञा ज्ञानं सैव परीषहः | २० | अज्ञानं साधोः स्पष्टमतिश्रुताद्यशक्ति, तदेव परीषहः | २१ | दर्शनं सम्यग्दर्शनं, पुण्यफलसंदेहे दर्शनातिचारो वा, तदेव परीषहो दर्शनपरीषहः | २२ | इत्थं नामतः परीषहानुक्त्वा द्वाभ्यां गाथाभ्यामेकैकस्वरूपमाह—अत्र निर्युक्तौ सनत्कुमारचक्री कण्डू १ अभत्तच्छन्दो २, अच्छीणं वेयणा ३ तहा कुच्छी ४। खासं ५ सासं ६ च जरं ७, अहियासे वाससत्तसए ॥१॥ [ उ.नि./गा. ८४] परीसहाणं पविभत्ती, कासवेणं पवेइया । तं भे उदाहरिस्सामि, आणुपुवि सुणेह मे ॥१॥ व्याख्या - परीषहाणामेषा प्रविभक्तिः पृथक्ता काश्यपेन श्रीवीरेण प्रवेदिता प्ररूपिता, तां परीषहप्रविभक्तिं भवतामुदाहरिष्यामि, आनुपूर्व्या क्रमेण शृणुत मम उदाहरत इति, शिष्यादरज्ञप्त्यै शृणुतेति ॥ १ ॥ इह सर्वपरीषहाणां क्षुत्परीषहो दुःसह इत्यादौ तमाहदिगिंछापरिगए देहे, तवस्सी भिक्खु थामवं । न छिंदे न छिंदावए, न पए न पयावए ॥२॥ व्याख्या - दिगिंछा क्षुत्तया परिणते व्याप्तदेहे सति तपोऽस्यास्तीति तपस्वी विकृष्टाष्टमादितपाः, स च गृहस्थादिरपि स्यादतो भिक्षुर्यतिः, सोऽपि कीदृक् ? स्थाम बलं संयमविषयं तदस्यास्तीति स्थामवान्, एवंविधोऽसौ न छिन्द्यात् स्वयं फलाद्यं, न छेदयेद्वान्यैः, स्वयं न पचेन्नान्यैः पाचयेत्, नान्यं छिन्दन्तं वा पचन्तं वाऽनुमन्येत । एवं न क्रीणाति, न क्रापयति, न क्रीणन्तमनुजानाति, क्षुत्पीडितोऽपि नवकोटीशुद्धिं न त्यजेत् ॥२॥ किञ्च कालीपव्वंगसंकासे, किसे धमणिसंतए । मायणे असणपाणस्स, अदीणमणसो चरे ॥३॥ व्याख्या -काली काकजङ्घा तस्याः पर्वाणि स्थूराणि, मध्यानि तनूनि च स्युस्ततस्तपस्वी काकजङ्घापर्वसदृशबाहुजङ्घाद्यङ्गः कृशस्तपसाऽस्थिचर्मावशेषशरीरः, धमनीभिः Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy