________________
द्वितीयं परीषहाध्ययनम्
सेवमानेन, विधिनैवार्हदेशस्थेन गुरुपार्श्वे श्रव्यं, न तु गुरुविनयभीत्या गुरुपर्षदुत्थितेभ्यः 'इह खलु बावीसं' ति इह लोके प्रवचने वा खलु निश्चितं वाक्यालङ्कारे वा, द्वाविंशतिः परीषहाः परि समन्तात् सह्यन्ते उदिता साधुभिर्निर्जरार्थं मनः शुद्धयेति परीषहाः, श्राम्यतीति श्रमणस्तपस्वी, तेन भगवता श्रीमहावीरेण काश्यपेन काश्यपगोत्रेण प्रवेदिताः प्रकर्षेण स्वयं साक्षाद् ज्ञाताः, नान्यतः पुरुषादपौरुषेयागमाद्वा, यान् परीषहान् भिक्षुः श्रुत्वा गुर्वन्ति ज्ञात्वा यथावदवबुद्धय, जित्वा पुनः पुनरभ्यासेन परिचितान् कृत्वा, अभिभूय सर्वथा तत्सामर्थ्यमुपहत्य, भिक्षोश्चर्या विहितक्रियासेवनं भिक्षुचर्या । “भिक्खायरियाए बावीसं परीसहा उईरिज्जन्ति " [ ] इति तद्ग्रहणं तया परिव्रजन् समन्ताद्विहरन्, स्पृष्ट इत्यादि श्लिष्टः परीषहैर्नो विविधैः प्रकारैः संयमशरीरोपघातेन विनाशं प्राप्नुयात् ॥
इत्युक्त उद्देशः, पृच्छामाह
कयरे खलु ते बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेड्या ? जे भिक्खु सुच्चा नच्चा जिच्चा अभिभूय भिक्खायरियाए परिव्वयंतो पुट्ठो नो विहन्निज्जा । इमे खलु ते बावीसं परीषहा समणेणं भगवया महावीरेणं कासवेणं पवेइया, जे भिक्खु सुच्चा णच्चा जिच्चा अभिभूय भिक्खायरियाए परिव्वयंतो पुट्ठो नो विहन्निज्जा ।
तं जहा - दिगिंछापरीसहे १. पिवासापरीसहे २. सीयप० ३. उसिणप० ४. दंसमसगप० ५. अचेलप० ६. अरइप० ७. इत्थीप० ८. चरियाप० ९. निसीहियाप० १०. सिज्जाप० ११. अक्कोसप० १२. वहप० १३. जायणाप० १४. अलाभप० १५. रोगप० १६. तणफासप० १७. जल्लप० १८. सक्कारपुरक्कारप० १९. पन्नाप० २०. अन्नाणप० २१. सम्मत्तप० २२ ॥२॥
व्याख्या- कतरे किं नामानस्ते परीषहा इति शेषं प्राग्वत् । निर्देशमाह- इमे तेऽनन्तरं वक्ष्यमाणतया हृदि वर्त्तमानत्वात् प्रत्यक्षास्ते इति ये त्वया पृष्टाः, शेषं प्राग्वत्, तद्यथेति प्रारम्भे । परीति सर्वप्रकारेण सह्यते इति परीषहाः, दिगिञ्छापरीषहः, इह दिगिञ्छा देश्या क्षुदुच्यते, सैवात्यन्ताकुलताहेतुरिति परीषहः । १ । पातुमिच्छा पिपासा सैव पिपासापरीषहः |२| एवं शीत | ३ | उष्ण |४| दंशमशक | ५ | अचेलपरीषहाः | ६ | अचेलत्वं वस्त्राऽरागः, अरतिः संयमाऽरतिः | ७ | स्त्रीपरीषहः | ८ | चर्या विहारः सैष परीषहः ।९। नैषेधिकीपरीषहः | १० | नैषेधिकी स्वाध्यायभूः, शय्यापरीषहः | ११ | शय्या
Jain Education International 2010_02
For Private & Personal Use Only
२३
www.jainelibrary.org