SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ द्वितीयं परीषहाध्ययनम् ॥ अथ विनयः परीषहसहैरपि कार्य इति द्वितीयं परीषहाध्ययनं, इदं चाष्टमपूर्वमध्यगमभूत् । यतः कम्मप्पवायपुव्वे, सत्तरसे पाहुडंमि जं सुत्तं । सनयं सउदाहरणं, तं चेवं इहं पि नायव्वं ॥१॥ इति नियुक्तिः [ गा.६९] । सुअं मे आउसंतेणं भगवया एवमक्खायं इह खलु बावीसं परिसहा समणेणं भगवया महावीरेणं कासवेणं पवेइआ जे भिक्खू सुच्चा णच्चा जिच्चा अभिभूय भिक्खायरियाए परिव्वयंतो पुट्ठो नो विहनिज्जा ॥१॥ व्याख्या-सुधर्मस्वामी जम्बूप्रत्याह-श्रुतं मया आयुष्मन्निति शिष्यस्यामन्त्रणं, महायुष एव सूत्रार्थचिरस्थायित्वात् , अव्युच्छित्त्यादिलाभात् , तत्र त्रिजगत्प्रतीतेन भगवता अष्टमहाप्रातिहार्यादिसमग्रैश्वर्ययुक्तेन एवं यतिसामाख्यातं, अथवा 'आउसंतेणं ति' भगवद्विशेषणं आयुष्मता भगवता चिरजीविना, मङ्गलवचनमेतत् , यद्वा परार्थप्रवृत्त्यादिना श्रेष्ठमायुर्धरता, न तु मुक्तिं प्राप्यापि तीर्थलोपादौ पुनरिहायातेन, यतः उक्तं कैश्चित् ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदं । गत्वा गच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥ [ ] एवं ह्यनुन्मूलितरागादिदोषत्वात्तद्वचसोऽप्रामाण्यमेव स्यात् । निःशेषोन्मूलने कर्मणां न पुनरागतिः, यद्वा 'आवसंतेणं' मयेत्यस्य विशेषणं, आङिति गुरूक्तमर्यादया वसता मया श्रुतं, गुरुमर्यादावर्तिरूपत्वाद् गुरुकुलवासस्य, ततश्च ज्ञानादिलाभ: "नाणस्स होइ भागी" [उ.प.६८२] इत्यादि यद्वा 'आमुसंतेण' आमृशता मया भगवदंह्रियुगं करतलेन स्पृशता, ज्ञाताखिलशास्त्रेणापि गुरुविश्रामणादिविनयकृत्यं कार्यं यतः-"जहाहि अग्गी जलणं नमसे" [द.अ.९।१।११] इत्यादि । यद्वा ‘आउसंतेणं ति' प्राकृतत्वात् आयुषमाणेन श्रवणविधिमर्यादया गुरून् Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy