________________
प्रथमं विनयश्रुतमध्ययनम्
श्रुतप्राप्तौ ऐहिकामुष्मिकफले गाथाद्वयेनाह
स पुज्जत्थे सुविणीयसंसए, मणोरुई चिट्ठ कम्मसंपया । तवोसमायारिसमाहिसंवुडे, महज्जुइ (ई) पंचवयाणि पालिया ॥ ४७ ॥
२१
व्याख्या - स साधुः कर्मसम्पदा, कर्म दशविधचक्रवालसामाचारी, तस्याः सम्पत्तयोपलक्षितस्तिष्ठति, कथम्भूतः ? पूज्यं श्लाघ्यं शास्त्रमस्येति पूज्यशास्त्रं, विनीतस्य शास्त्रं विशेषात् पूज्यते, यद्वा प्राकृतत्वात् पूज्यः शास्ता गुरुरस्येति पूज्यशास्तृकः, विनीतो हि विनेयः शास्तारं पूज्यमपि विशेषतः पूजां प्रापयति, यद्वा पूज्यश्चासौ शस्तश्च सर्वत्र प्रशंसावत्त्वेन पूज्यशस्तः, सुष्ठु अतिशयेन विनीत उपनीतः प्रसादितगुरुणैवशास्त्रार्पणेन संशयो यस्येति सुविनीतसंशय:, सुविनीता वा संसत्परिषदस्येति सुविनीतसंसत्कः, विनीतस्य हि विनीतैव पर्षत् स्यात् । मनसो गुरुसम्बन्धिनो रुचिरिच्छाऽस्मिन्निति मनोरुचिर्न स्वरुचिचारी, यद्वा तस्य कर्मसम्पत् अष्टकर्मवृद्धिस्तिष्ठति अग्रतो न वर्द्धते । 'मणोरुइं चिठ्ठइ कम्मसंपयं' इति पाठे मनोरुचितफलदातृत्वेन मनोरुचितां कर्मसंपदं शुभप्रकृतीनामनुभवस्तिष्ठति । नागार्जुनीयपाठे 'मणिच्छियं संपयमुत्तमं गइ त्ति' इह च सम्पदं यथाख्यातचारित्रसंपदं इति । तपसः समाचारी समाचरणं, समाधिश्चित्तस्वास्थ्यं ताभ्यां संवृत्तो निरुद्धाश्रवः, महती द्युतिस्तपस्तेजस्तेजोलेश्या वा यस्य स महाद्युतिः, पञ्चमहाव्रतानि हिंसानिवृत्त्यादीनि पालयित्वाऽखण्डमाराध्य ||४७||
स देवगंधव्वमणुस्सपूईए, चइत्तु देहं मलपंकपुव्वयं ।
सिद्धे वा (भ) वइ सासए, देवे वा अप्परए महिड्डिए ॥ ४८ ॥ त्ति बेमि
व्याख्या - स विनीतविनयो देवैर्वैमानिकज्योतिषैगन्धर्वैर्गन्धर्वनिकायोपलक्षितैर्व्यन्तरभुवनपतिभिर्मनुष्यैर्महानृपाद्यैः पूजितः सन् मलपङ्कपूर्वकं, रक्तशुक्रे मलपङ्की तत्पूर्वकं तद्भवदेहं त्यक्त्वा सिद्धः शाश्वतः सर्वकालस्थायी, न तु बुद्धवत्तीर्थनिकारे आगन्ता, देवो वाऽल्परतोऽल्पशब्दोऽभावेऽरतो लवसप्तमादिरल्परजा वाऽल्पबद्ध्यमानकर्मा, महाऋद्धिश्चक्रिभञ्जनाद्या तृणाग्रात्, स्वर्णकोटिपाताद्याविष्करणशक्तिर्वा यस्य साधोः, स भवति, देवविशेषणं चैतत् इति ब्रवीमि गणधराद्युपदेशान्न तु स्वधा ॥४८॥
J
इति विनयश्रुताख्यमाद्यमध्ययनमुक्तम् ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org