________________
१९
प्रथमं विनयश्रुतमध्ययनम् तेष्वपि प्रतपत्सु भवत्सु शासनं भाति, तत् किमकाले संलेखनारब्धा ? न वयमेषां निर्वेदायेति भवद्भिश्चिन्त्यं, यतः शिर:स्था अपि यूयं न भाराय न शिष्याणां न कदापि । तत इङ्गितजस्तैर्गुरुभितिं यथामच्छिष्यकृत्यमेतत्, तत्किमदोऽप्रीतिदायुषा ? न धर्मिणा कस्याप्यप्रीतिरुत्पाद्येति ध्यात्वा गुरवो मुत्कलितमेव तत्पुर ऊचुः, कियच्चिरमजङ्गमैरस्माभिर्वैयावृत्त्यं कार्याः साधवो यूयं च ? तदुत्तमार्थमेव स्वीकुर्म इति तानसौ संस्थाप्य भक्तं प्रत्याख्यातवान् । एवं विनयी शिष्य बुद्धोपघाती न स्यात् । तथा तोत्रगवेषको न स्यात्, तोत्रं द्रव्यतः प्राजनकः, भावतस्तु दोषोद्भावकतया व्यथाकृद्वचनं विनयिशिष्यो न गवेषयति, किमहमेषां जात्यादिदोषं वच्मीति न गवेषयति ॥४०॥ तथा
आयरियं कुवियं नच्चा, पत्तिएण पसायए । विज्झ( वि )ज्ज पंजलिउडो, वइज्जा न पुण त्ति य ॥४१॥ व्याख्या-आचार्य उपाध्यायादिं च कुपितं, तत्कृतबहिःकोपं अशिक्षणाऽदृष्टिदानादि ज्ञात्वा प्रतीत्युत्पादकं वचः प्रातीत्यिकं शपथाद्यपि तेन, यद्वा प्रीत्या साम्नैव प्रसादयेत् प्रसन्नीकुर्यात् , विध्यापयेत् उदीर्णकोपानलमपि उपशामयेत् प्राञ्जलिपुटः, इत्थं कायिकं मानसिकं च विध्यापनोपायमुक्त्वा वाचिकं वक्तुमाह-वदेत् यथेदं क्षमितव्यं न पुनरित्थमाचरिष्यामीति यतः
जह दीवा दीवसयं, पदिप्पड़ दिप्पई व सो दीवो।
दीवसमा आयरिया, दिप्पंति परं च दीवंति ॥१॥[उ.नि./गा.८] ॥४१॥ अथ विनयगुणमाह
धम्मज्जियं च ववहारं, बुद्धेहिं (आ)यरियं सया ।
तमायरंतो ववहारं, गरहं नाभिगच्छड् ॥४२॥ व्याख्या-यत्तदोनित्यसम्बन्धात् यो धर्मेण क्षान्त्यादिनाऽजितो बुद्धराचरितश्च व्यवहारः प्रत्युपेक्षणादिः, विशेषेण अपहरति पापकर्मेति व्यवहारस्तमाचरन् गहाँ अविनीतोऽयमिति नाभिगच्छति, यद्वा गुरुविनयमाह-धर्माय साधुर्धो जीतो व्यवहार: ‘प्राकृतत्वाल्लिङ्गव्यत्ययः' अधुनागमादिव्यवहारव्यवच्छेदेन जीतव्यवहारात् , स बुद्वैराचार्यैराचरितः, सदा त्रिकालविषयत्वाज्जीतस्य, तं व्यवहारं प्रायश्चित्तदानरूपमाचरन् गहीँ दण्डरुचिरयं निघृणो वेति गहीं गुरुर्नाभिगच्छति, न चायं ममोपकारी मे शिष्य इति न दण्ड्यः ॥४२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org