SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनदीपिकाटीका-१ बालाशयस्तु खड्डगा(या) मे चवेडा मे, अक्कोसा य वहा य मे । कल्लाणमणुसासंतो, पावदिट्टि त्ति मण्णइ ॥३८॥ व्याख्या-खट्टकाष्टक्करा मे, चपेटाः करतलाघाता मे, आक्रोशाश्चासत्यभाषा मे, वधाश्च दण्डकादिघाता मे, इति दुर्विचारयुतो बालः शिष्यः कल्याणमिहपरलोकहितमनुशासन्तं शिक्षयन्तं गुरुं पापदृष्टिं पापबुद्धि मन्यते, यथा पापोऽयं मां हन्ति निघृणो गुप्तिपालवत् , ततः खट्टकाद्या एव मे गुरुभिर्दीयन्ते नान्यत् किञ्चिदिष्टमस्तीत्यर्थः, यद्वा वाग्भिरप्यनुशास्यमानः खट्टकादिरूपा वाचोऽसौ मन्यते ॥३८|| विनीताशयस्तु पुत्तो मे भाय णाइ त्ति, साहू कल्लाण मन्नइ । पावदिट्ठी उ अप्पाणं, सासं दासि त्ति(व) मन्नइ ॥३९॥ व्याख्या-पुत्र इव मे, भ्रातेव मे, ज्ञाति, इति बुद्ध्याचार्यो मामनुशास्तीति साधुः सुशिष्यः कल्याणं गुरुमनुशासनं वा मन्यते, पापदृष्टिस्तु कुशिष्यः पुनस्तेन शास्यमानमात्मानं दासमिव मन्यते, यथासौ दासवन्मामाज्ञापयति ॥३९॥ विनयतत्त्वमाह न कोवए आयरिश्र, अप्पाणं वि न कोवए । बुद्धोवघाइ न सिया, न सिया तोत्तगवेसए ॥४०॥ व्याख्या-[विनयी शिष्यः] आचार्यमन्यमपि च विनयाहं न कोपयेत्, आत्मानमपि गुर्वादिताडनया न प्रकोपयेत्, कथञ्चित् सकोपतायामपि बुद्धोपघाती आचार्योपघातकृन्न स्यात् । युगप्रधानोपघातिकुशिष्यवत्-यथा कश्चिद्गुरुर्युगप्रधान उद्यतविहार्यपि क्षीणजवाबल एकस्थाने तस्थौ, तत्र श्राद्धैस्तीर्थाधारोऽयमित्यर्हस्निग्धमधुराहारादि तस्मै सदा ददे, तच्छिष्यास्तु गुरुकर्मत्वात् कदाचिद् दध्युर्यत् कियच्चिरमयमजङ्गमः पाल्यः ? तमनशनं जिग्राहयिषवो भक्तश्राद्धदत्ताऱ्याहारं तस्मै न ददुः, अन्तप्रान्ताद्यानीय विषण्णा इव तत्पुर ऊचुः किं कुर्मो ? यदीदृशामपि वोऽर्हान्नाद्यैरविवेकाः श्रद्धाः सदापि दातुमशक्ताः, श्राद्धांश्च ते प्रोचुर्यदेहं मुमुक्षवः स्निग्धाहारमार्या नेच्छन्ति, संलेखनामेव चिकीर्षवः, तत् श्रुत्वा सकोपखिन्नाः श्राद्धा गुरुमेत्य सगद्गदं जगुः भगवन् ! विश्वार्केष्वर्हत्सु चिराती Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy