________________
प्रथमं विनयश्रुतमध्ययनम्
१७ व्याख्या-अल्पशब्दोऽभावे, अल्पाः प्राणाः प्राणिनो यत्र, तदल्पप्राणं, अल्पानि असन्ति बीजानि शाल्यादीनि यत्र तदल्पबीजं, तस्मिन् प्राणो मुखवायुः स द्वीन्द्रियादीनां स्यादतः प्राणा द्वीन्द्रियाद्याः, तत्रापि प्रतिच्छन्ने उपर्याच्छादिते, अन्यथा सम्पातिमपातात् , संवृते पार्श्वत: कटकुट्यादिना सङ्कटद्वारे, अटव्यां कुडङ्गादिषु वा, अन्यथा दीनादियाचने दानादानयोः पुण्यबन्धद्वेषादिदर्शनात् , उपाश्रयादिषु समकं अन्यैः साधुभिः साकं, नत्वेकाक्येव रसागार्यात् संयतो भुङ्क्ते, 'जयंति यतमानः सुर २ चब २ कस २ काद्यकुर्वन् अपरिसाटिकं परिसाटिमकुर्वन् ॥३५॥
अथ तत्र वाग्यतनामाह
सुकडि त्ति सुपक्कि त्ति, सुच्छिन्ने सुहडे मडे ।
सुनिट्ठिए सुलट्ठि त्ति, सावज्जं वज्जए मुणी ॥३६॥ व्याख्या-सुकृतं सुष्ठ निवर्तितमन्नादि, सुपक्वं घृतपूर्णादि, सुच्छिन्नं शाकपत्रादि, सुहृतं शाकपत्रादेस्तिक्तत्वादि, सूपविलेपकादिना मात्रकादेघृतादि वा, सुष्ठ मृतं घृतादि सक्थुसूपादौ, सुष्ठ निष्ठितं गाढनिष्ठां रसप्रकर्षान्तं गतं, 'सुलट्ठि'त्ति-सर्वैरपि रसादिभिः प्रकारैः शोभनमिति, एवम्पकारमन्यदपि सावद्यं वचो वर्जयेन्मुनिः । यद्वा सुष्ठ कृतं वदनेनारेः प्रतिकृतं, सुष्ठ पक्वं मांसादि, छिन्नो न्यग्रोधादिः, सुहृतं कदर्यादर्थजातं, सुहृतो वा चौरादिः, सुमृतोऽयं प्रत्यनीकद्विजादिः, सुनिष्ठितोऽयं चैत्यकूपादिः, सुलष्टोऽयं गजादिः, इति सामान्येन सावधं वचो वर्जयेत् , निरवा तु सुकृतमनेन धर्मध्यानादि, सुपक्वमस्य वाग्विज्ञानादि, सुच्छिन्नं स्नेहबन्धादि सुहृतमुपकरणं स्वजनोपसर्ग सुहृतं वा कर्मानीकादि, सुमृतमस्य पण्डितमरणमर्तुः, सुनिष्ठितोऽसौ साधवाचारे, सुलष्टं शोभनमस्य तपोऽनुष्ठानादि, इति वदेत् ॥३६।।
___ एवं प्रतिरूपविनय उक्तः, अथ पण्डितबालयोः शिक्षायां गुरोः समश्रमौ भवतः, यतः
रमए पंडिए सासं, हयं भदं व वाहए ।
बालं सम्मइ सासंतो, गलियस्स व वाहए ॥३७॥ व्याख्या-पण्डितान् शिष्यान् स्खलितादौ शासन् शिक्षयन् रमते रतिमान् स्यात् गुरुः, कमिव क इत्याह-भद्रं हयमिव यथा भद्रं शुभं हयं शासन् वाहकोऽश्वन्दमा रतिमेति, बालमन्यं (मूर्ख) शासन् श्राम्यति, स हि सकृदुक्त एव कृत्यं न कुरुते, पुनः पुनस्तमाज्ञापयन् खिद्यते, कमिव कः ? इत्याह-गलिमश्वमिव वाहकः ॥३७||
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org