________________
श्रीउत्तराध्ययनदीपिकाटीका-१ व्याख्या-भिक्षुः परिपाट्यां गृहपङ्क्तौ न तिष्ठेत्, पङ्क्तिस्थबहुगृहभिक्षायै नैकत्र तिष्ठेत् , तत्र दायकदोषाऽदृष्टेः, यद्वा भुञ्जाननृपङ्क्त्यां न तिष्ठेत् , अप्रीत्यदृष्टाकल्याणतादिदोषसंभवात् । किञ्च दत्तैषणां, दाने एषणां ग्रहणैषणां दोषान्वेषणात्मिकां चरेदासेवेत, प्रतिरूपेण प्रधानरूपेण, यद्वा प्रतिबिम्बं चिरन्तनमुनीनां यद्रूपं तेन पतद्ग्रहादिधारणात्मकेनान्यलिङ्ग्यसदृशेन वेषेण गवेषणादोषत्यागेन एषयित्वा गवेषयित्वा, एवं ग्रासैषणापि सूचिता, मितं परिमितं, बहुभुक्तौ स्वाध्यायहान्यादिदोषात् , कालेन "नमोक्कारेण पारित्ता" इत्याद्यगमोक्तप्रस्तावेनाहताविलम्बितादिरूपेण वा भक्ष्येद् भुञ्जीत ॥३२॥ पुरायाताऽन्यभिक्षुसम्भावे विधिमाह
नाइदूरमणासन्ने, नन्नेसिं चक्खुफासओ ।
एगो चिट्ठिज्ज भत्तट्ठा, लंघिता तं नइक्कमे ॥३३॥ व्याख्या-अतिदूरे देशे न तिष्ठेत् , तत्र तन्निर्गमाज्ञानादेषणाशुद्ध्यसम्भवाच्च, अनासन्ने आसन्ने भूभागे न तिष्ठेत् , अन्यभिक्षुकाऽप्रीतिभावात्, 'नन्नेसिं' अन्येषां गृहस्थानां चक्षुःस्पर्शे दृग्गोचरे न तिष्ठेत् , यदुतैष भिक्षुः निःक्रमणं प्रतीक्षते इति गृहिणो यथा न विदन्ति, किन्तु विविक्तदेशस्थ एकः पुराप्रविष्टोपरि द्वेषरहितस्तिष्ठेत् भिक्षार्थं, तं भिक्षुकं लवयित्वा [नातिक्रामेद्] न प्रविशेत् , तल्लङ्घने चाऽप्रीत्यपवादभावात् ॥३३॥
तथा
नाइउच्चे व णीए वा, नासन्ने नाइदूरओ ।
फासुयं परकडं पिंडं, पडिगाहिज्ज संजए ॥३४॥ व्याख्या संयत उच्चैर्मालादौ नीचे भूमिगृहादौ पिण्डं भिक्षां न प्रतिगृह्णीयात् , तत्रोत्क्षेपनिक्षेपाऽदर्शनात् , दायकाऽपायादिसंभवात्, यद्वा साधुविशेषणं, द्रव्यभावाभ्यां नात्युच्चो न नीचः, उच्चस्थानस्थ ऊर्वीकृतग्रीवो वा द्रव्यतः, भावतोऽहं लब्धिमानितिमदवान् इत्युच्चः, निम्नस्थानस्थो नतग्रीवो वा द्रव्यतो नीचः, भावतस्तु न मयाऽद्य किञ्चिल्लब्धमिति दैन्यवानिति, न आसन्ने स्थाने, अतिदूरतो न तिष्ठेत् , आसन्नातिदूरयोर्जुगुप्साशङ्काऽनेषणादिदोषाः स्युः, पिण्डं प्रासुकं परकृतं, परेण गृहिणात्मार्थं परार्थं वा कृतं प्रतिगृह्णीत संयतः ॥३४॥ एवं सूत्रद्वयेन गवेषणाग्रहणैषणायुक्तिमुक्त्वा ग्रासैषणाविधिमाह
अप्पपाणप्पबीयंमि, पडिच्छिन्नंमि संवुडे । समयं संजये भुंजे, जयं अप्परिसाडियं ॥३५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org