________________
प्रथमं विनयश्रुतमध्ययनम्
तथा
हियं विगयभया बुद्धा, फरुसं पि अणुसासणं ।
वेसं तं होइ मूढाणं खंतिसोहिकरं पयं ॥२९॥ व्याख्या-विगतभयाः सप्तभयरहिता बुद्धास्तत्वज्ञा हितं पथ्यं मन्यन्ते, परुषमपि कर्कशमप्यनुशासनं गुरुशिक्षां, यद्वा हितं विगतभयाद् बुद्धाचार्यादेरुत्पन्नं परुषमप्यनुशासनं द्वेष्यं द्वेषकरं तदनुशासनं मूढानां भवति, क्षान्तिः क्षमा, शुद्धिर्निर्मलता तत्करं शान्तिशुद्धिकरं मार्दवादिशुद्धिकरं, च पदं ज्ञानादिगुणस्थानम् ॥२९।। ज्ञानस्वरूपमुक्त्वा स्थितिविनयमाह
आसणे उवचिट्ठिज्जा, अणुच्चे अकुए थिरे ।
अप्पुट्ठाई णिरुट्ठाइ णिसीइज्जप्पकुकुए ॥३०॥ व्याख्या-आसनं पीठादि वर्षासु , ऋतुबद्धे पादपुञ्छनादि, तत्र पीठादावुपतिष्ठेत् उपविशेत् , अनुच्चे द्रव्यतो नीचे भावतस्त्वल्पमूल्ये गुर्वासनात् , अकुचेऽस्पन्दमाने तस्य शृङ्गाराङ्गत्वात् , स्थिरे समपादस्थिते, अन्यथा सत्त्वविराधनात् 'अप्पुठ्ठाई', अल्पमुच्छातुं शीलमस्येत्यल्पोत्थायी, न पुनःपुनरुत्थानशीलः, निमित्तं विना नोत्थानशीलो निरुत्थायी, निषीदत् आसीत् अल्पकुकुचः करादिभिरल्पमेव चलन् , यद्वा अल्पं करचरणभ्रूभ्रमणाद्यसच्चेष्टात्मकमस्येत्यल्पकौकुचः ॥३०॥ स्थितिविनयमुक्त्वा चरणकरणविनयमाह
कालेण निक्खमे भिक्खू, कालेण य पडिक्कमे ।
अकालं च विवज्जित्ता, काले कालं समायरे ॥३१॥ व्याख्या-सप्तम्यर्थे तृतीया, भिक्षुः काले प्रस्तावे निःक्रामेत् गच्छेत् भिक्षायै, अकालनिर्गमे आत्मक्लामग्रामगर्हादिदोषाः, काले च प्रतिक्रामेत् प्रतिनिवर्तेत भिक्षाटनात्, स्वाध्यायाऽहान्यै, अलाभे अल्पलाभे वा तथा, अकालं तत्तत्क्रियाया असमयं वर्जयित्वा काले प्रत्युक्षेणादिवेलायां कालं तत्तत्कालाहीँ क्रियां, समाचरेत्, कर्षककृषिक्रियावदिष्टफलहेतोः ॥३१॥ भिक्षाविधिमाह
परिवाडीए न चिट्ठिज्जा, भिक्खु दत्तेसणं चरे । पडिरूवेण एसित्ता, मियं कालेण भक्खए ॥३२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org