________________
श्रीउत्तराध्ययनदीपिकाटीका - १
वन्ध्यासूरित्यादि, न मर्मगं, त्वं काण इत्यादि जन्मकर्मादि वा, संक्लेशोत्पादकत्वात्, तथा आत्मार्थं परार्थं उभयार्थं अन्तरेण वा कार्यं विना वा न लपेत् ॥२५॥
१४
उपाधिदोषांस्त्याजयति
समरेसु अगारेसु, संधीसु य महापहे ।
एगो
थिए सद्धि, नेव चिट्ठे न संलवे ॥ २६ ॥
व्याख्या - समरेषु खरकुटीषु यतः चूर्णि: "समरं नाम जच्छ लोहकारा हिठ्ठा कम्मं करिंति” एवं नीचास्पदेषु, यद्वा द्रव्यसमरा जनसंहारकारिणो, भावतस्तु रागादिवैरिव्यापारास्तेषु सत्सु, अत्र भावसमरैरधिकारः, अगारेषु गृहेषु सन्धिषु च गृहद्वयान्तरालेषु, महापथेषु राजमार्गादौ च, एक एकया स्त्रिया सार्द्धं नैव तिष्ठेत्, ऊर्ध्वस्थानस्थो न भवेत्, न तया सह संभाषं कुर्यात्, एवं द्वयोः साध्वोर्द्वयोः स्त्रियोरपि वक्तुं स्थातुं च न युक्तम् ॥२६॥
स्खलितेषु गुरुभिः शिष्यते शिष्यविधिः
जं मे बुद्धाणुसासंति, सीएण फरूसेण वा ।
मम लाभो त्ति पेहाए, पयओ तं पडिस्सुणे ॥२७॥
व्याख्या - बुधा यन्मां अनुशासन्ति शिक्षां ग्राहयन्ति शीतेन सोपचारवचसा शीलेन वेति पाठे, शीलं महाव्रतादि, उपचारात्तज्जनकं वचोऽपि शीलं यद्वा शील: समाधौ ततः शीलेन समाधिकृता भद्र ! भवादृशामिदमनर्हमित्यादिना, तथा परुषेण कर्कशेन वचसा मम लाभोऽप्राप्तार्थप्राप्तिरूपोऽयं, यन्मामनाचारिणममी सदाचारे स्थापयन्तीति प्रेक्षया बुद्ध्या प्रयतः प्रयत्नवान्, पदतः सूत्रपाठाद्वा तदनुशासनं प्रतिशृणुयात्, कार्यतयाङ्गीकुर्यात् ||२७||
प्राज्ञाप्राज्ञस्वरूपमाह
अणुसासणमोवायं, दुक्कडस्स य चोयणं ।
हियं तं मन्नई पन्नो, वेस होइ असाहुणो ॥ २८ ॥
व्याख्या–प्राज्ञ उपाये मृदुपरुषभाषणादौ भवमौपायं, यद्वा उप समीपे पतन मुपपातस्तत्र भवमौपपातं, गुरुसंस्तारास्तरणविश्रामणादिकृत्यविषयमनुशासनं, चान्यदुः कृतस्य चोयणं प्रेरणं, हा किमिदमित्थमाचरितमित्यादि हितमिहपरलोकोपकारि मन्यते । तदनुशासनादिरसाधोरसाधुभावस्य द्वेष्यं द्वेषोत्पादकं भवति ॥ २८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org