________________
प्रथमं विनयश्रुतमध्ययनम्
१३
पादपुञ्छनादि त्यक्त्वा यतो यत्नवान्, यद्वा यत इति यत्र गुरवस्तत्र गत्वा, 'जत्तं' ति प्राकृतत्वात् बिन्दुलोपे यद् गुरवो वदन्ति तत्, यात्रां संयमयात्रां वा कार्यतया प्रतिश्रुणुयात् स्वीकुर्यात् ॥२१॥
उक्तः प्रतिश्रवणविधिः, पृच्छाविनयमाह
आसणगओ न पुच्छिज्जा, नेव सिज्जागओ कया । आगम्मुक्कुडूओ संतो, पुच्छिज्जा पंजलीउडो ॥ २२ ॥
व्याख्या-आसनगत आसनासीनः सूत्रादिकं न पृच्छेत्, नैव शय्यागतः संस्तारकगतः पृच्छेत्, रोगाद्यवस्थां विना कदाचिदपि बहुश्रुतत्वेऽपि संशये पृच्छेत्, नत्ववज्ञया, आगम्य गुर्वन्तिकमेत्य उत्कुडुको ( उत्कटिको) मुक्तासन, कारणे पादपुञ्छनादिगतः सन् शान्तो वा पृच्छेत् सूत्रादिकं, प्राञ्जलिपुटः कृताञ्जलिः ॥२२॥
गुरुविनयमाह
एवं विणयजुत्तस्स, सुत्तं अत्थं च तदुभयं । पुच्छमाणस्स सीसस्स, वागरेज्ज जहा सुयं ॥२३॥
व्याख्या–एवमुक्तप्रकारेण विनययुक्तस्य पृच्छतः शिष्यस्य स्वयं दीक्षितस्योपसंपन्नस्य वा सूत्रं कालिकोत्कालिकादि, अर्थं तदुभयं सूत्रार्थात्मकं वा व्यागृणीयात् यथा श्रुतं गुरुभ्यो यथाऽऽकर्णितं न तु सबुद्धयैव ज्ञातम् ॥२३॥
शिष्यस्य वाग्विनयमाह
मुसं परिहरे भिक्खू, न य ओहारिणि वए ।
भासादोसं परिहरे, मायं च वज्जए सया ॥ २४ ॥
व्याख्या- भिक्षुर्मृषां भूतनिह्नवादिकं परिहरेत्, नचावधारिणीं निश्चयात्मिकां वदेत्, गमिष्याम एव आगमिष्याम एव वक्ष्याम एवेति भाषादोषं सावद्यानुमोदनाद्यं सर्वं चकारमकाराद्यं च परिहरेत्, मायां च क्रोधादींश्च भाषादोषहेतून् सदा वर्जयेत् ||२४||
किञ्च
न लविज्ज पुट्ठो सावज्जं, न णिरट्टं न मम्मयं । अप्पणट्ठा परट्ठा वा, उभयस्संतरेण वा ॥२५॥
व्याख्या-पृष्टः सन् सावद्यं न लपेत्, तथा पश्चात् सावद्यानुमोदना, भाषादोषः स्वयमेव भाषणे उक्तोऽत्र परप्रश्नेऽप्युक्त इति न पौनरुक्त्यं, निरर्थं दशदाडिमादि, एष
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org