________________
१२
शुश्रूषणाविनयं गाथाभ्यामाह
न पक्खओ न पुरओ, नेव किच्चाण पिट्ठओ । न जुंजे ऊरुणा ऊरुं, सयणे नो पडिस्सुणे ॥ १८ ॥
व्याख्या–कृत्यानामाचार्यादीनां पक्षतो यमलं दक्षिणे वामे भागे नोपविशेत् तत्पङ्क्त्युपवेशनेन साम्यादविनयः स्यात्, गुरोश्च वक्रालोकात् स्कन्धग्रीवादिबाधाभावः, न पुरतोऽग्रत उपविशेत् वन्दारूणां गुर्वास्याऽनीक्षणाद्यैरप्रीतेः नैव पृष्ठतः पृष्टदेशमाश्रित्य, द्वयोर्मुखाऽनीक्षणात्, आसनोपवेशादिनाऽात्मीयेनोरुणा गुरूणामूरुं न युज्यान्न घटयेत्, ऊरुकथनेन शेषाङ्गस्पर्शपरिहारो ज्ञेयः, शयने शय्यायां शयित आसीनो वा न प्रतिश्रुणुयात्, एवं कुर्म इति न प्रतिजानीयात् किं तु योजिताञ्जलिः समेत्य पादपतनपूर्वं अनुगृहीतोऽहमिति मन्यमानो भगवन्निच्छामोऽनुशिष्टिमिति वदेत् ॥१८॥
श्रीउत्तराध्ययनदीपिकाटीका - १
,
नेव पल्हत्थियं कुज्जा, पक्खपिंडं व संजए ।
पाए पसारिए वावि, न चिट्ठे गुरुणंतिए ॥१९॥
व्याख्या- पर्यस्तिकां जानुजङ्घोपरि वस्त्रवेष्टनेन नैवं कुर्यात्, पक्षपिण्डं वा बाहुद्वयपिण्डात्मकं न कुर्यात्, पादौ वापि न प्रसारयेत्, अपेरितस्ततो न विक्षिपेदित्यर्थः, पादौ प्रसारितौ कृत्वा न तिष्ठेत्, गुरोरन्तेऽत्यासन्ने, एवं अवष्टम्भोच्चपदाय च पादादि च न कुर्यात्, किन्तूचितदेशे विधिना तिष्ठेत् ॥१९॥
पुनः प्रतिश्रवणाविधिमाह
आयरिएहिं वाहित्तो, तुसिणीओ न कयाइ वि । पसायपेही नियागट्ठी, उवचिट्ठे गुरुणं सया ॥२०॥
व्याख्या- आचार्यैः उपाध्यायाद्यैर्व्याहृतः शब्दितः, कदाचित् ग्लानाद्यवस्थायामपि तूष्णीको न भवेत्, प्रसादोऽयं यदन्यसद्भावेऽपि मां दिशन्ति गुरव इति प्रेक्षितुं आलोचयितुं शीलमस्येति प्रसादप्रेक्षी प्रसादार्थी वा गुरुपरितोषाभिलाषी नियोगार्थी उपतिष्ठेत्, मस्तकेन वन्दे इति वदन् उपसर्पेत् गुरुं सदा ||२०||
Jain Education International 2010_02
आलवंते लवंते वा, न निसीइज्ज कयाइ वि । चऊण आसणं धीरो, जओ जत्तं पडिस्सुणे ॥२१॥
व्याख्या - धीरो बुद्धिमान् परीषहाक्षोभ्यो वा गुरौ आलपति ईषल्लपति, लपतीति वारंवारं लपति, न निषीदेत् कदाचिदपि व्याख्यादिना व्याकुलत्वेऽपि आसनं
For Private & Personal Use Only
www.jainelibrary.org