________________
९
प्रथमं विनयश्रुतमध्ययनम्
स्वाध्यायध्यानेऽस्थात्, अवन्तीवासी नवोढ इभ्यसूः सकुङ्कुमाङ्गसुवेषो मित्रैः सह युवा साधूपान्तमेत्य हासेन नत्वोचे, भगवन्तो धर्मं ब्रूत, तैः शठोऽमित्युत्तरमदत्वा स्वाध्यायः कृतः, पुनरूचे निर्विण्णोऽहं गृहवासभार्याभ्यां, दीक्षां मह्यं दत्त, साधुभिरुल्लण्ठ इति ज्ञात्वा चण्डरुद्रोऽदर्शि, वयं शिष्याः एषोऽस्मद्गुरुर्दीक्षते, स गुरुं गत्वा नत्वोचे, मां दीक्षध्वं, यथाहं सुखी स्यां, पुनः पुनरुक्ते स्वभावदोषो गुरुरूचे, भस्मानय, एकेन तथाकृते तच्छिरो लुञ्चित्वा दीक्षा ददे, मित्राणि विषण्णान्यूचुर्मित्र नश्य, स भाग्याल्लघुकर्मा कथं कृतलोचः स्ववाचात्तव्रतो यामि गेहमिति,
छुट्टति नियलबद्धा, संकलबद्धा य नउलबद्धा य । मोहनियलेण बद्धा, भवकोडिसए न छुट्टति ॥ १ ॥
भावसाधुर्जातः, वयस्या गताः, शिष्यो मा मत्स्वजना एत्य मां व्रतं मोचयन्त्वित्यन्यत्र यामीति गुरुं जगौ, तेन सायं मार्गं प्रतिलिख, प्रत्यूषे याव इत्युक्तः प्रतिलिख्यागात्, प्रत्यूषे द्वौ तस्मिन् पथि प्रस्थितौ, अग्रे याहीत्युक्तः शिष्योऽचलत्, गुरुर्मार्गात् स्खलितः, वेदनावशेन हा दुष्ट शिष्य ! भव्यं किं न मार्गः प्रत्यलेखीति रोषाद्दण्डेनाहत्, शीर्षं स्फुटितं, शिष्यः सम्यक् सहमानो अहोऽहमधन्यो येनामी स्वसाधुमध्ये सुखं तिष्ठन्तो मयेदृग्दुःखं प्रापिताः, कथमस्खलितं नये, समाधिं जनयामीति प्रयत्नेन यान् सुभावात् केवल्यभूत्, प्रातः गुरुः शिष्यशीर्षं स्फुटितं रक्ताक्तं दृष्ट्वा संवेगादहोऽस्य शिष्यस्याप्यद्भुता क्षमा, मम चिरदीक्षितस्य गणिनोऽपीदृग् दोष इति स्वं निन्दन्नाप केवलं, उत्तराध्ययनलघुवृत्तौ आवश्यकवृत्त्यादिषु कोऽपि कथाभेदः, आदौ स्वनिन्दया गुरोः केवलं, कालेन शिष्यस्य ॥१३॥
गुरुचित्तानुवृत्तियुत्क्तिमाह
नापुट्ठो वागरे किंचि, पुट्ठो वा नालियं वए ।
कोहं असच्चं कुव्विज्जा, धारिज्जापियमप्पियं ॥१४॥
व्याख्या - अपृष्टो गुरुणा कथमिदमित्यजल्पितः किञ्चिदपि स्तोकमपि न व्यागृणीयात्, पृष्टो वाऽलीकं न वदेत्, निर्भत्सितोऽपि गुरोः क्रोधं तदुक्तकुविकल्पस्फेटनेनाऽसत्यं कुर्यात् ।
क्रोधाऽसत्यत्वकृतौ दृष्टान्तः - कस्यापि कुलपुत्रस्य भ्राताऽरिणा हतः, स मात्रोक्तः पुत्र भ्रातृघातिनं हन्धि, तेन स जीवग्राहं बद्ध्वाम्बापार्श्वं नीत्वोक्तो रे भ्रातृघातिन् ! कथं त्वां हन्मीति खड्गमुद्गामितं, स भीतोऽवक् शरणैता यथा हन्यन्ते, ततः सुतोऽम्बास्यं पश्यंस्तया सत्वेनोत्पन्नकृपयोक्तं, पुत्र शरणैता न हन्यते,
For Private & Personal Use Only
Jain Education International 2010_02
www.jainelibrary.org