________________
श्रीउत्तराध्ययनदीपिकाटीका-१ व्याख्या-कदाचिच्चाण्डालीकं वा कृत्वा न निह्नवीत मया न कृतमिति नापलपेत, कदाचिदप, पातोऽज्ञातोऽपि वा चाण्डालीकादिकृतं सत् कृतमेव भाषेत, भयलज्जाद्यैर्मया न कृतं इति न भाषेत, अकृतं नो कृतमित्यकृतमेव भाषेत, न तु मायोपरोधादिना अन्यथा भाषेत, अतिचारे सति लज्जाद्यकुर्वन् गुर्वन्ते एत्य,
जह बालो जंपतो, कज्जमकज्जं च उज्जुयं भणइ ।
तं तहा आलोयज्जा, मायामयविप्पमुक्को उ ॥१॥ [सं.प्र./गा.१५०२] इत्यादि युक्त्या शल्यं आलोचयेत् ।।११।।
ज्येष्ठविनयमाह____मा गलियस्सेव कसं, वयणमिच्छे पुणो पुणो ।
कसं व दुगुमाइन्ने, पावगं परिवज्जए ॥१२॥ व्याख्या-साधुर्गलिरश्व इव कसं कशप्रहारमिव वचनं प्रवृत्तिनिवृत्तिविषयं उपदेशं गुरोर्मा इच्छेत् वारं वारं, यथा गल्यश्वः कशाघातं विना न प्रवर्त्तते निवर्त्तते वा, नैव गुरुवचनमुपेक्ष्यं, किन्तु सुशिष्य आकीर्णाश्वो विनीताश्व इव कशं चर्मयष्टिमिव गुरोराकारादि दृष्ट्वा पापकं असदननुष्ठानं परिवर्जयेत् , यथा आकीर्णोऽश्वः कशादिनागरोहकाशयं ज्ञात्वा कशेऽलग्ने इव तदाशयाच्चलेत् वलेत वा, एवं सुशिष्योऽप्याकाराद्यैर्गुर्वाशयं ज्ञात्वा तथानुतिष्ठेत्, माभूद्वागायासो गुरोरिति, ‘पावगं पडिवज्जए' इति पाठे पुनातीति पावकं, शुभानुष्ठानं प्रतिपद्येतेत्यर्थः ॥१२।। यतः
अणासवा थूलवया कुसीला, मिउं पि चंडं पकरेंति सीसा ।
चित्ताणुया लहु दक्खोववेया, पसायए ते हु दुरासयं पि ॥१३॥ व्याख्या-अनाश्रवा गुरुवचस्यस्थिताः, स्थूलमनिपुणं वाचो येषां ते स्थूलवचसोऽविचार्यभाषिणः, कुशीलाः कदाचाराः शिष्या मृदुं कोमलगिरमपि गुरुं चण्डं कोपनं खरभाष वा प्रकुर्वन्ते, ये च जात्याश्व इव चित्तानुगा लघु शीघ्रं दाक्ष्येनाऽविलम्बकारित्वेनोपपेता युक्ताः स्युस्ते दुःखेनाश्रयमर्ह कोपनत्वाद्यैर्दुराशयमपि गुरुं प्रसादयेयुः प्रसन्नं कुर्युः, किं पुनरकषायम् ।
अत्र दृष्टान्तश्चण्डरुद्राचार्यशिष्य:-अवन्त्यां स्नात्रे उद्याने साधवः समवसृतास्तेषां गुरुश्चण्डरुद्राख्यः साधूनामूनाधिकानुष्ठानानि पश्यन्नतिरुष्यंस्तददृष्ट्यै आत्महिताय चैकान्ते
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org