________________
प्रथमं विनयश्रुतमध्ययनम्
विनीतस्तु
निसंते सियाऽमुहरी, बुद्धाणं अंतिए सया ।
अट्ठजुत्ताणि सिखिज्जा, निरट्ठाणि उ वज्जए ॥८ ॥
व्याख्या - नितरां शान्तोऽन्तः क्रोधत्यागाद् बहिः प्रशान्ताकारत्वात्, अमुखारिरमुखरो वा बुद्धानामाचार्यादीनामन्तिके पार्श्वे सदा अर्थो हेयादेयरूपस्तेन युक्तानि, अर्थो मोक्षो वा तत्र युक्तानि सङ्गतान्यागमवचांसि शिक्षेत, निरर्थानि डित्थडात्थादीनि साध्वयोग्यानि वैशेषिकवात्स्यायनादीनि वा, तु पुनः पुनर्वर्जयेत् ||८||
शिक्षणविधिः
अणुसासिओ न कुप्पिज्जा, खंतिं सेविज्ज पंडिए । खुद्देहिं सह संसग्गी, हासं कीडं च वज्जए ॥९॥
व्याख्या - पण्डितोऽनुशिष्टः श्रुतशिक्षणे स्खलितादौ गुरुणा खरोक्त्या शिक्षितोऽपि न कुप्येत, क्षान्ति सहनात्मिकां सेवेत, क्षुद्रैर्बालैः शीलहीनैर्वा पार्श्वस्थाद्यैः सह 'संसगिंग' संसर्ग हास्यं क्रीडां चान्त्यक्षरिकाप्रहेलिकाद्यां वर्जयेत् ||९||
क्रियाविनयमाह
माय चंडालियं कासी, बहुयं मा य आलवे । काले य अहिज्जित्ता, तर झाइज्ज एक्कओ ॥१०॥
७
व्याख्या–च अन्यत् चण्डः क्रोधस्तद्वशादलिकं कूटोक्तिश्चण्डालीकं, एवं लोभालीकाद्यपि, यद्वा चण्डाले भवं चाण्डालिकं हिंसाद्यं घोरं कर्म, यद्वा हे अचण्ड सौम्य ! गुरूक्तमागमं वा अलीकं मा कार्षीः, जिनोक्ततिलोत्पाटकस्वेच्छालापगोशालिकवत्, बह्वव बहुकं घनं आलजालं स्त्र्यादिकथाद्यं कारणे अपि माचालपेत्, बह्वालापेऽध्ययनादिक्षतिवातक्षोभादिभावात् कालेनाद्यपौरुष्यादिरूपेणाधीत्य पृच्छनादि वा कृत्वा, ततोऽध्ययनादनन्तरं ध्यायेत् चिन्तयेत् सूत्रार्थी, एकको भावतो रागादिरहितो द्रव्यतो विविक्तशय्यादिसंस्थः ॥१०॥
इत्थमकृत्यत्यागकृत्यविधी उक्तौ दोषे सति किङ्कार्यमित्याहआहच्च चंडालियं कट्टु, न निन्हविज्ज कयाइ वि । कडं कडे ति भासिज्जा, अकडं नो कडे ति य ॥११॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org