________________
श्रीउत्तराध्ययनदीपिकाटीका-१ दृष्टान्तेनाऽविनीतदोषमाह
जहा सुणी पूतिकन्नी, निक्कसिज्जइ सव्वसो ।
एवं दुस्सीलपडिणीए, मुहरी निक्कसिज्जइ ॥४॥ व्याख्या-यथा पूतिकर्णी कुथितसकृमिकर्णा शूनी सर्वतः सर्वेभ्यो गोपुरगृहाङ्गणादिभ्यो हतहतेत्यादिलेष्ठ्वादिघातैर्निष्कास्यते, पूतिकर्णीति सर्वाङ्गकुत्साज्ञाप्त्यै, शुनीति स्त्रीदृष्टान्तोक्तिरतिकुत्सार्थं, एवं दुःशीलो दुष्टाचारः प्रत्यनीको मुखारिः, मुखमेवेह परलोकोपकारितया अर्यिस्यासौ मुखारिः, मुधा कार्यं विनैवारयोऽस्याऽसौ मुधारिरसंबद्धभाषित्वान्मुखरो वा, निष्कास्यते सर्वथा कुलगणसङ्घसमवायबहिर्वर्ती क्रियते ॥४॥ ननु किमीदृशोऽसावित्याह
कणकुंडगं जहित्ताणं, विटुं भुंजइ सूयरे ।
एवं सीलं जहित्ताणं, दुस्सीले रमई मिए ॥५॥ व्याख्या कणास्तण्डुलास्तेषां कुण्डकं क्षोदयुतं कुकुशं हित्वा त्यक्त्वा शूकरो गर्ताशूकरो विष्टां भुङ्क्ते, एवमविनीतः पुष्टिदायि शोभनं शीलं सदाचारं हित्वा विवेकगर्हिते दौःशील्ये रमते, मृग इव मृगोऽपायाऽज्ञत्वात्, यथा मृगो गीताक्षिप्तो नापायं पश्येत् तथाऽयमपि पुरो दुर्गतिं न पश्येत् ।।५।। ततः
सुणियाऽभावं साणस्स, सूयरस्स नरस्स य ।
विणए ठविज्ज अप्पाणं, इच्छंतो हियमप्पणो ॥६॥ व्याख्या-शुन्या इव, सूकरस्येति दुःशीलासेवनात् शूकरोपमस्य नरस्य अभावमशोभनं भावं, सर्वतो नि:काशनाख्यं श्रुत्वा, चः पूर्ती, नञ् कुत्सायामपि, साधुर्विनये स्थापयेदात्मानं, आत्मनैव इच्छन्नात्मनो हितमैहिकामुष्मिकं च ।।६।।
तम्हा विणीयमेसिज्जा, सीलं पडिलभे जओ ।
बुद्धपुत्ते नियागट्ठी, न निक्कसिज्जइ कण्हुइ ॥७॥ व्याख्या-तस्मादिति अविनयदोषं ज्ञात्वा विनयमेषयेत् कुर्यात्, यतो विनयतः शीलं संयमं प्रतिलभेत-आप्नुयात्, बुधैरर्हद्भिरक्तं, निजकं तत्वत आत्मीयं ज्ञानादि तदर्थी, यद्वा बुद्धानां आचार्यादीनां पुत्र इव पुत्रो बुद्धपुत्रः साधुर्नियोगो मोक्षस्तदर्थी सन् न निष्कास्यते-न बहिः क्रियते 'कण्हुइ' कुतश्चिद् गणादेः, किन्तु मुख्य एव स्यात् ।।७।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org