________________
श्रीउत्तराध्ययनदीपिकाटीका - १
,
व्याख्या - संयोगनिक्षेपादिविस्तारो निर्युक्तेर्ज्ञेय:, इह तु सूत्रार्थमात्रं, उत्तमपुरुषक्रियैकवचनादनुक्तोऽहं कर्त्ता प्रादुः करिष्यामि प्रकटीकरिष्ये, विनयं विशिष्टो विविधो वा नयो नीतिर्विनयः, साधुजनमार्गस्तं विनमनं वा विनतं द्रव्यतो नीचैर्नमनं, भावतः साध्वाचारदाक्ष्यं कस्य विनयं ? साधोः, किं भूतस्य ? संयोगाद् द्रव्यतो मात्रादिसंयोगाद् भावतो विषयादिक्लिष्टतरभावसंयोगाच्च विविधैर्ज्ञानभावनादिप्रकारैः, प्रकर्षेण परीषहोपसर्गादिसहत्वान्मुक्तस्य विप्रमुक्तस्य, अविद्यमानमगारमस्येत्यनगारस्य, इह विशेषणरूपोऽनगारशब्दो ज्ञेयः, तत्रागारं द्विधा, द्रव्यभावाभ्यां आद्यं दृषदाद्यैः कृतं द्रव्यागारं च अनन्तानुबन्ध्यादिकृतं भावागारं कषायमोहनीयं यद्वा, 'अणगारस्स भिख्खुणो' त्ति, अस्वेषु भिक्षुरस्वभिक्षुः, अनात्मीयानेव गृहिणोऽन्नादि भिक्ष्यते, न तु स्वजात्यान्, अनागारश्चासास्वभिक्षुश्चाऽनगारास्वभिक्षुस्तस्यानुपूर्व्यादिक्रमेण शृणुत श्रवणं प्रत्यवहिता भवतु, मम विनयं विनतं वा प्रादुःकरिष्यतः सतः, अनेन पराङ्मुखमपि धर्मे स्थापयितुर्लाभ एवेति ज्ञेयं ॥ तथेदमध्ययनमधीयानस्याऽविनीतस्यापि विनयोद्भावः स्यात्तत्तद्वाच्यन्योऽर्थो लिख्यते - भिक्षोः कषायादिवशेन जीववीर्यहीनस्य शुभफलाऽनाप्त्या भिक्षणशीलस्य विनयं प्रादुः करिष्यामि, संयोगेन कषायादिसम्पर्केणाऽविप्रमुक्तस्य अपरित्यक्तस्य, अणगारस्स त्ति, ऋणं क्लेशकृत्त्वादष्टधा कर्म तत्करोति, गुरुक्ताऽकरणाद्यैश्चिनोति ऋणकारस्तस्य विनयकथनेविनयोऽप्युक्तः स्यादिति तद्वाच्यार्थो लिख्यते - विरुद्धो नयोऽविनयोऽसदाचारस्तं प्रादुःकरिष्यामि, भिक्षोरविधिना भक्षणशीलस्य संयोगाद्विप्रमुक्तस्य, सम्यग् योगः समाधिः संयोगस्तस्माद्विविधैः परीषहाऽसहनगुरुनियोगाऽसहत्वालस्यादिप्रकारैः प्रकर्षेण मुक्तस्य, शेषं
४
प्राग्वत् ॥१॥
अथ विनयो गुणः, स जीवादभिन्नस्ततो विनीतगुणैरेव विनयस्वरूपमाहआणाणिद्देसकरे, गुरूणमुववायकारए ।
इंगियाकारसंपन्ने, से विणीय त्ति वुच्चइ ॥२॥
व्याख्या - आङिति यथास्वभावमर्यादया ज्ञायतेऽर्थोऽनयेत्याज्ञाऽर्हदागमरूपा, तस्या निर्देश उत्सर्गापवादाभ्यां स्वीकारस्तत्करणशीलस्तदनुलोमानुष्ठानः आज्ञानिर्देशकरः, यद्वा सौम्येदं कुर्विदं च मा कार्षीरिति गुरुवागेवाज्ञा, तस्या निर्देश इदमित्थमेव करोमीति निश्चयः, तत्करः, आज्ञानिर्देशेन वा तरति भवाब्धिमित्याज्ञानिर्देश ( क )तर:, इत्थमनन्तपर्यायत्वाद्भगवद्वचनस्य व्याख्याभेदाः स्युः, गुरूणामाचार्यादीनामुपपातो वा दृग्विषये देशे स्थानं तत्कारकस्तत्कर्त्ता, नत्वादेशादिभीत्या दूरस्थायी, इङ्गितं निपुणगम्यं, प्रवृत्तिनिवृत्तिसूचीषत्शिरःकम्पादिः, आकारः स्थूलधीज्ञेयः प्रस्थानादिभावज्ञापको दिगालोकादिः, यतः
For Private & Personal Use Only
Jain Education International 2010_02
www.jainelibrary.org