SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीजिनाय नमः ॥ ॥ श्रीउत्तराध्ययनदीपिकाटीका ॥ श्रीउत्तराध्ययनस्य किञ्चिदर्थः कथाश्च लिख्यन्ते-इह उत्तराध्ययनशब्दार्थः, उत्तराणि प्रदानानि, पूर्वं श्रीशय्यम्भवं यावच्चतुर्दशपूर्विकाले आचाराङ्गादनुपठ्यमानत्वेन, ततो दशकालिकोर्ध्वं पठ्यमानत्वेन श्रेष्ठानि अध्ययनानि उत्तराध्ययनानि, निर्वाणकाले श्रीवीरेण कानिचित् सूत्रतः कानिदिदर्थत उक्तानि, तत्राधीयन्ते अधिगम्यन्ते ज्ञायन्ते विचारा यैरधिकं वा अयनं मार्गो मुक्तेर्येभ्यस्तान्यध्ययनानि उत्तराध्ययनानि, विनयश्रुतादीनि, श्रुतं च स्कन्धो राशिश्चेति श्रुतस्कन्धः । उत्तराध्ययनानां श्रुतस्कन्ध उत्तराध्यययनश्रुतस्कन्धः । इह उत्तराध्ययनश्रुतस्कन्धानां शब्दानां नामस्थापनादिभिर्बहुधा निक्षेपो निर्युक्तेर्जेयः, अध्ययनानां नामानि विनयश्रुत १ परीषह २ चउरङ्गिक ३ असंखेय ४ अकाममरणीय ५ निर्ग्रन्थीय ६ औरभ्र ७ कापिलीय ८ नमिप्रव्रज्या ९ द्रुमपत्रक १० बहुश्रुतपूजा ११ हरिकेशीय १२ चित्रसम्भूतीय १३ इषुकारीय १४ सभिक्षु १५ ब्रह्मचर्यसमाधिस्थान १६ पापश्रमणीय १७ सञ्जयीय १८ मृगापुत्रीय १९ महानिर्ग्रन्थीय २० समुद्रपालीय २१ रथनेमीय २२ केशिगौतमीय २३ प्रवचनमातृ २४ याज्ञीय २५ सामाचारीय २६ खलङ्गीय २७ मोक्षमार्गगति २८ सम्यक्त्वपराक्रम २९ तपोमार्गगति ३० चरणविधि ३१ प्रमादस्थान ३२ कर्मप्रकृति ३३ लेश्या ३४ अनगारमार्ग ३५ जीवाजीवविभक्तिरिति ३६ षट्त्रिंशत् , तत्र श्रीधर्मकल्पद्रोविनयमूलत्वादादौ विनयश्रुताध्ययनमाह सुधर्मस्वामी, यतोऽधुना वाचना श्रीवीरेण सुधर्मण एवानुज्ञाता संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो । विणयं पाउकरिस्सामि, आणुपुट्विं सुणेह मे ॥१॥ ____ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy