________________
२७४
श्रीउत्तराध्ययनदीपिकाटीका-१ भविष्यति ? अतस्त्वया गर्वो न कार्यः, इत्यादि स्वात्मानं निन्दन्ती तिष्ठति । तन्मिषं लब्ध्वान्याभी राज्ञीभिर्नृपायोक्तं स्वामिन्नेषा दुर्मन्त्रसाधनपरा कार्मणं कुरुते । तदा गुप्तस्थितेन राज्ञा तत्सर्वं दृष्टम् । तन्मनोनैर्मल्यतः सोऽत्यन्तं तुष्टो निजपट्टराज्ञी तां चकार । प्रान्ते राजाराश्यौ विमलाचार्यान्ते प्रव्रज्य महाशुक्रे पुष्पोत्तरविमाने जग्मतुः, राज्ञीपिता च वृद्धचित्रकारोऽपि श्राद्धीभूय सुतादत्तपञ्चपरमेष्ठिध्यानपरो मृत्वा वानमन्तराख्यो वैमानिको महद्धिदेवोऽभूत् । चित्रकृत्पुत्र्यहं ततश्च्युत्वा वैताढ्ये तोरणपुरे दृढशक्ते राज्ञः सुताऽभूवं कनकमालाख्या । मद्रूपमोहितेन वासवाख्यखेटेन हृत्वाहमत्र सौधं कृत्वाऽस्थापि, मदुद्वाहाय च तेनेयं वेदिका कृता ।।
इतो मज्ज्येष्ठभ्राता कनकतेजा मत्पृष्टौ समागत्य वासवेन सह युद्धं चकार । तस्मिन् युद्धे च तौ द्वावपि मृत्तौ । अहं तु विलप्यात्रैव स्थिता । इतो मे प्राग्भवपिता वानमन्तरदेवोऽत्र समेतः, मामुपलक्ष्य चात्रैवास्थापयत् । इतो मे पिता दृढशक्तिरीक्षणार्थमत्रायातः, तदा तेन सुरेण मद्रूपमाच्छाद्य त्रयाणामपि मृतकरूपाणि मत्पित्रे दर्शितानि । तद् दृष्ट्वा युद्धे त्रीनपि मृतान् ज्ञात्वा स वैराग्याद्दीक्षां जग्राह । अथ देवेन स्वकृतां मायां संहृत्य मया सह स मत्पितृमुनिर्नतः, तेनोक्तं मया त्रीणि रूपाणि कथं दृष्टानि? देवो निजकृतां मायां जगौ। साधुरूचे ध्रुवं त्वं ममोपकारी, यत्त्वयाऽहं राज्यं त्याजितो दीक्षां च ग्राहितः, अथ कनकमालापि सुरोक्त्या जाति सस्मार, पूर्वपतिं प्रति चाहताभूत् । सुरोऽवक् वत्से स जितशत्रुराट् देवो भूत्वा दृढसिंहराट्सुतः सिंहस्थो जातोऽस्ति, स चात्रैव तव भर्ता भावी, अतस्त्वमत्रैव तिष्ठ ! इति स मामत्रैव स्थापयित्वा स्वयं चैत्यनत्यै गतोऽस्ति । एवं यावत् सा कथयति तावत् स सुरस्तत्र समेतः, राजानं दृष्ट्वा हृष्टः सुरस्तं तत्र मासैकं यावद्दीव्याहारैः प्रीणयन्नरक्षयत् । अथ राजा वैरितो निजनगररक्षणकृते तत्र गमनोत्सुकोऽभूत् । तदा सुरेण तस्मै प्रज्ञप्ती विद्या दत्ता, तेन स आकाशमार्गेण प्रत्येकपञ्चमेऽह्नि कनकमालापार्श्वे सविमानः समायाति, ततो लोकेन तस्य नग्गतिः (निर्गतिः) नाम कृतम् । कालान्तरे सुरोक्त्या तेन तत्र पुरुषपुराख्यं नगरं स्थापितम् ।
___ अथैकदा स राजा कार्तिकीराकायां राजपाटिकायां गतः सदाफलाम्रद्रुममेकं मञ्जर्यादियुतं दृष्ट्वा तन्मञ्जरीगुच्छमेकमत्रोटयत् । पृष्ठस्थतत्परिवारेणापि गतानुगतिको लोकः। इति न्यायात्तद्वृक्षस्य पत्रादिसर्वग्रहणपूर्वकं स केवलं काष्ठावशेषीकृतः । इतः प्रत्यावृत्तो नृपः परिवारमपृच्छत् क्व स चूततरुः ? तदा मन्त्रिणा स काष्ठावशेषीभूतो वृक्षो
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org