SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ अष्टादशं संयतीयाध्ययनम् नमः कथा पूर्वमुक्ता । बहुयाण सद्दयं सोच्चा, एगस्स य असद्दयं । वलयाणं नमीराया, निक्खंतो महिलावई ॥१॥ [ उत्त. नि. गा. २७४ नगतिचरित्रं यथा-गन्धारदेशे पाण्डुरवर्द्धनपुरे सिंहरथो राट्, एकदा स उत्तरापथागततुरगयोः परीक्षार्थं ससुत आरुह्य बहिर्गत:, विपरीतशिक्षिततदश्वारूढोऽसावेकादशयोजनाटवीमुल्लङ्घितः, श्रान्तेन तेन ततो यावद्वल्गा हस्ततो निर्मुक्ता, तावदश्वोऽपि स्थिरीभूतः, तदासौ हयत उत्तीर्य जलं पीत्वाऽश्वं च पाययित्वा फलैर्वृत्तिं चकार । निशि शयनार्थं स्थानं पश्यन् स गिरिशृङ्गे गतः, तत्र सप्तभूमिकं सौधं दृष्ट्वा स प्रविष्टः, तस्यैकया कन्ययोत्थाय तस्मै आसनं दत्तम्, राजापि तत्र निविष्टः परस्परं विलोकनतो रागो बभूव । अथ राज्ञा सा पृष्टा, त्वमस्मिन्नरण्ये कुतः समागता ? तयोक्तं प्रथमं त्वमत्र वेदिकायां मामुद्वह ? पश्चाद्वृत्तान्तं कथयिष्यामि । अथ स तत्र चैत्येऽर्हन्तं नत्वा तां परिणीतवान् । तदा सा तेन सार्धमासने निविष्टा निजोदन्तमुवाच । इहैव भरतक्षेत्रे क्षितिप्रतिष्ठितपुरे जितशत्रू राट् चित्रसभां कारयामास । तेन सर्वेषां चित्रकृतां तुल्या भूर्विभज्य चित्रयाऽर्पिता । तेष्वेको वृद्धचित्रकृन्निजभूविभागं चित्रयति । तत्सुता कनकसुन्दरी तस्यार्थं सर्वदा भक्तं तत्रानयति । तस्यां च तत्रैतायां स चित्रकारोऽनिशं देहचिन्तार्थं बहिर्याति । अन्यदा सा भक्तमादाय पथि यान्ती केनचिदश्ववारेण धावता त्रासिता दूरीभूय चित्रसभामेता, तत्रस्थया तया कुट्टिमभुवि मयूरपिच्छं चित्रितम्, इतस्तत्र नृपस्तां चित्रसभां वीक्षितुं समागात्, चित्रितमयूरपिच्छं सत्यं मन्यमानोऽसौ गृहीतु लग्नः परं तत्करे तन्न चटितं, प्रत्युत तन्नखा भग्नाः, तद् दृष्ट्वा तं राजानमजानती सा चित्रकारसुता हसिता, राज्ञोक्तं किं त्वया हसितं ? तयोक्तं मूर्खतापर्यङ्के तुर्योहिस्त्वं मया दृष्टः, विस्मितेन राज्ञोक्तमन्ये त्रयः के ? तयोक्तमेकोऽद्य मया जनाकीर्णे पथि वाजिखेलको दृष्टः, द्वितीयो मत्पिता यः समागते भक्ते देहचिन्तार्थं सर्वदा बहिर्याति । तृतीयो राजा, येनैकाकिनो वृद्धस्यापि मे पितुश्चित्रकृते सर्वसमान भूर्दत्ता । तुर्यस्त्वं योऽक्षेत्रे मयूरपिच्छग्राही । तच्चातुर्यविस्मितो राजा तस्यामनुरक्तीभूय तां परिणीतवान् । सापि विविधाश्चर्यजनककथाभिर्नृपं प्रीणयन्ती षण्मासान् यावन्निजावासेऽरक्षयत्, अथ राजानं तस्यामेवानुरक्तं विलोक्यान्या राज्ञ्यो हृदि दूयमानास्तस्या मारणाय छलान्यन्वेषषन् । सा चित्रकारसुता विनयपरा कदापि गर्वं न करोति, निजापवरककपाटौ विधाय सर्वदा निजपूर्वचित्रकारसामान्यजीर्णवेषं परिधाय हे आत्मन् ! त्वया पूर्वपुण्यानुसारत ईदृग्ऋद्धियुतं नृपपत्नीत्वं प्राप्तमस्ति को जानात्यागामिनि काले किं Jain Education International 2010_02 २७३ For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy