________________
२७२
श्रीउत्तराध्ययनदीपिकाटीका-१ द्विमुखाख्या कृता, क्रमेण तस्य सप्त पुत्रा जाताः, न तु पुत्री, तत्कृते राज्ञी दुःखं दधती यक्षस्योपासनं चक्रे, क्रमेण तया रात्रौ स्वप्ने आम्रमञ्जरी दृष्टा, जाता चैका तस्याः सुता, कृतं च तस्या मदनमञ्जरीत्यभिधानम् । क्रमेण सा यौवनवती जाता । अथावन्त्याधिपतिश्चण्डप्रद्योतो मुकुटात्तं द्विमुखीभूतं श्रुत्वा तन्मुकुटग्रहणार्थं निजदूतं तत्र प्रेषीत् । दूतेनागत्य मुकुटो द्विमुखान्मार्गितः, द्विमुखेने क्रुद्धेनोक्तं हे दूत ! त्वं ते स्वामिनं गत्वा कथय ! यत्तवपट्टराज्ञी शिवादेवीं, अनिलवेगगजं, अग्निभीरुनामरथम्, लोहजङ्घनामानं दूतं चात्र मम प्रेषय ! यथा तेऽहं मुकुटं प्रेषयामि ।
अथ चण्डप्रद्योतो दूतमुखात्तन्निशम्य क्रुद्धः सप्तकोटीपदातियुतो महासैन्येन चलितः शीघ्रं काम्पिल्यदेशसन्धि प्राप्नः, द्विमुखोऽपि निजसैन्ययुतः सम्मुखमागतः, द्वयोः सैन्ययोर्गरुडादिव्युहैयुद्धे जायमाने मुकुटप्रभावाद् द्विमुखेन चण्डप्रद्योतो भग्नो बद्धश्च जनैर्द्विमुखपादाने मुक्तो निगडितः, द्विमुखस्तं निर्बन्धनीकृत्य निजावासे सन्मानपुरस्सरं ररक्षम् । अथैकदा तत्र चण्डप्रद्योतो मदनमञ्जरी दृष्ट्वा कामविवशोऽभूत् , द्विमुखेन तं विह्वलं विज्ञाय कारणं पृष्टोऽसौ जगौजइ इच्छसि मम कुसलं, पयच्छ तो मयणमंजरी एयं ।। नियधूयं मे नरवर, न दासि पविसामि जलणं तु ॥१॥[] तदा द्विमुखेन सुमुहूर्ते तया सह स उद्वाहितः, सन्मानितश्चावन्त्यां प्रेषितः, अथान्यदा द्विमुखराज्ञा इन्द्रमहे समादिष्टा जना इन्द्रध्वजं महानान्दीरवैरुर्वीकृत्य दुकूलान् परिधाप्य मणिमालाभूषणसुपुष्पचन्दनकर्पूरकेसरादिभिः परिपूज्य ध्वजसहस्रयुतं च कृत्वा सप्ताहपर्यन्तं तं विविधनाट्यदिभिरर्चयामासुः, अथ तस्मिन् महे विसजिते पूर्णिमायां राजा राजपाटिकां बहिर्गतः, तत्र तमेवेन्द्रस्तम्भं भूमौ पतितं विण्मूत्रलिप्तं जनैश्च हील्यमानं दृष्ट्वा सम्बुद्धः । जो इंदकेओ सुअलंकियं तु, दटुं पडतं पविलुप्पमाणं । रिद्धि अरिद्धि समुपेहियाणं, पंचालराया वि समिक्ख धम्मं ॥४॥ [ उत्त. नि. गा.२७२ ] प्रविलुप्यमानं लोकैर्वस्त्रग्रहणेन इतस्ततः क्षिप्यमाणम् बुढेि च हाणिं च ससिस्स दटुं, पूरावरेगं च महानदीणं अहो अणिच्चं अधुवं च नच्चा, पंचालराया वि समिक्ख धम्मं ॥२॥ [उत्त. नि. गा.२७३ ] पूरं [पूर्णतां], अवरेकं रिक्ततां च ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org