________________
अष्टादशं संयतीयाध्ययनम्
२७१ ग्रामं त्वं सुखेन मार्गयस्व ! द्विजनेनोचे मे चम्पायां गृहम्, अतस्तत्पार्श्वस्थमेकं ग्रामं देहि ! तदा करकण्डुना चम्पाधीशदधिवाहनायैकं पत्रमलेखि यद्युष्माभिरस्मै द्विजायैको ग्रामश्चम्पानिकटस्थो देयस्तत्स्थानेऽहं च युष्मभ्यं युष्मदिष्टं ग्रामं दास्यामि । तत्पत्रं वाचयित्वा रुष्टो दधिवाहनो जगौ अरे दुष्ट मातङ्ग ! तवैकमपि ग्राममहं नैव दास्ये । क्रुद्धः करकण्डुनिजसैन्येन चम्पां रुरोध । ज्ञातोऽयं वृत्तान्तः पद्मावतीसाध्व्या, तदा जनक्षयभयात्तया करकण्डुपार्श्वे समागत्य रहस्युक्तमेष तव पितास्ति । तदा विस्मितेन करकण्डुना मातङ्गपितरौ पृष्टौ, ताभ्यामपि यथास्थं प्रोक्तम्, परं स मानान्नाऽपासरत् । तदा सा साध्वी चम्पायां नृपवेशमागात् , दास्यस्तामुपलक्ष्य तच्चरणयोः पतिताः, राजापि तत् श्रुत्वा तत्रागत्य तां नत्वासने स्थापयित्वा गर्भप्रवृत्तिमपृच्छत् । तन्मुखात् सर्वमुदन्तं ज्ञात्वा हृष्टो राजा स्वयं करकण्डुपार्श्वे गत्वा मिलितः, करकण्डुरपि निजशीर्षेण पितुश्चरणारविन्दयो नाम ।
___ अथ राजा तस्मै राज्यं दत्वा प्रावाजीत् । करकण्डुमहाशासनोऽभूत् , तस्य गोकुलानीष्टानि जातानि । तन्मध्ये शरद्येकं वत्सं पुष्टं श्वेतं दृष्ट्वा स गोपालानूचेऽस्य माता मा दुह्यतां ! अन्यगवामपि दुग्धमस्मै पाय्यं, गोपैस्तथा कृतम्, तेन स वृषभो वृत्तशृङ्गः क्रमेण महाबलः सुशोभितोऽभूत् । कियद्वर्षानन्तरं करकण्डुस्तं वृषभं विलोकयितुं गोकुले समागतः, तदा तं सुपोष्यमाणमपि वृषभं जराजर्जरं अस्थिपिञ्जरमात्रमन्यवृषभैश्च पट्टकैस्ताड्यमानं दृष्टवा गोपानूचे, क्व स वृषभ: ? तैस्तस्मिन्नेवोक्ते विषण्णः करकण्डुरनित्यत्वं ध्यायन् सम्बुद्धः । सेयं सुजायं सुविभत्तसिंगं, जो पासिया वसभं गोट्टमज्झे । रिद्धि अरिद्धि समुपेहिया णं, कलिंगराया वि समिक्ख धम्मं ॥१॥ [ उत्त. नि. गा.२७१] गोटुंगणस्स मज्झे, ढंकियसद्देण जस्स भज्जं ति । दत्तावदरिय वसभा, सुतिक्खसिंगा समत्था वि ॥२॥ [ उत्त. नि. गा.२७१ वृ.] पोराणयगयदप्पो, गलंतनयणो चलंतदसणोटो । सो चेव दरियवसभो, पट्टगए परिघट्टणं सहइ ॥३॥ [उत्त. नि. गा.२७१ वृ.] द्विमुखचरितं यथा-पञ्चालेषु काम्पिल्यपुरे हरिवंशो यवो राट् , तस्य गुणमाला प्रिया, एकदा स सभायामूचे कि मे नास्ति ? दूतैरूचे स्वामिन् ! चित्रसभा नास्ति, राज्ञा सूत्रभृद्भिः सा कारिता, तस्यां निष्पद्यमानायां पञ्चमेऽह्नि भूखनने मुकुटरत्नं महातेजः कर्मकरैर्लब्धं, तत्सुमहै राजा परिधाय चित्रसभायां निविष्टः, तत्प्रभावात् स द्विमुखोऽभूत् , तदा जनै राज्ञो
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org