________________
२४६
श्रीउत्तराध्ययनदीपिकाटीका-१ __व्याख्या-यः कश्चित् प्रव्रजितो निद्राशीलो निद्रालुः, प्रकामशो बहुशो भुक्त्वा दद्धयोदनादि, पीत्वा तक्रादि, सुखं यथास्यादेवं सर्वक्रियानिरपेक्षः स्वपिति स पापश्रमण इत्युच्यते ॥३॥ तथा
आयरियउवज्झाएहि, सुयं विणयं च गाहिए ।
ते चेव खिसइ बाले, पावसमणे त्ति वुच्चइ ॥४॥ व्याख्या-आचार्योपाध्यायैः, श्रुतमर्थतः शब्दतश्चान्यद्विनयं ग्राहितः शिक्षितो यैस्तानेवाचार्यादीन् खिसति निन्दति, एवंविधो बालो विवेकविकलो यः स पापश्रमण इत्युच्यते ॥४॥ ज्ञानविषयं पापश्रमणमुक्त्वा दर्शनविषयमाह
आयरियउवज्झायाणं, सम्मं नो पडितप्पई ।
अप्पडिपूयए थद्धे, पावसमणे त्ति वुच्चइ ॥५॥ व्याख्या-आचार्योपाध्यायानां सम्यगऽवैपरीत्येन न परितृप्यति न प्रीणयति, अप्रतिपूजकोऽहंदादिषु प्रतिपत्तिविमुखः, अथवोपकृतेऽपि न प्रत्युपकारकारी, स्तब्धो गर्वाध्मात आत्मानमेव बहुमन्यते यः स पापश्रमण इत्युच्यते ।।५।। अथ चारित्रविषयं पापश्रमणं नवगाथाभिराह
सम्मद्दमाणे पाणाणि, बीयाणि हरियाणि य ।
असंजए संजयमन्नमाणो, पावसमणे त्ति वुच्चइ ॥६॥ व्याख्या-सम्मईयन् , प्राणयोगात् प्राणिनो द्वीन्द्रियादीन् , बीजानि शाल्यादीनि, हरितानि च दूर्वादीनि, सर्वैकेन्द्रियोपलक्षणं चैतत् । असंयतोऽपि संयतोऽहमिति मन्यमानः, अनेन तस्य संविग्नपाक्षिकत्वमपि नास्तीत्युक्तं । स पापश्रमण इत्युच्यते ॥६॥
संथारं फलगं पीढं, निसिज्जं पायकंबलं ।
अप्पमज्जिय आरुहई, पावसमणे त्ति वुच्चइ ॥७॥ व्याख्या-संस्तारं कम्बलादि, फलकं चम्पकपट्टादि, पीठमासनं, निषद्यां स्वाध्यायभूम्यादिकां, पादकम्बलं पादपुञ्छनं, अप्रमृज्य रजोहरणादिना अप्रत्युपेक्ष्य चारोहते स पापश्रमणः ॥७॥
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org