________________
सप्तदशं पापश्रमणीयाध्ययनम् ॥
ब्रह्मचर्यगुप्तयः पापस्थानवर्जनात् सेव्यन्ते इति पापश्रमणाख्यं सप्तदशाध्ययनं पापस्थानज्ञापि, तद्वर्जनायाह
जे केइ उ पव्वइए नियंठे, धम्मं सुणित्ता विणओववन्ने । सुदुल्लहं लहिउं बोहिलाभं, विहरिज्ज पच्छा य जहासुहं तु ॥ १ ॥ व्याख्या-य: कश्चित्, तुः पूर्ती, प्रव्रजितो निर्ग्रन्थः, कथं पुनः प्रव्रजित: ? इत्याह-धर्मं श्रुतचारित्ररूपं श्रुत्वा, विनयेन ज्ञानदर्शनाचरित्रोपचाराख्येनोपपन्नो युक्तः सन्, सुदुर्लभं लब्ध्वा बोधिलाभं जैनधर्माप्ति, एवं भावप्रतिपत्त्याऽसौ दीक्षितः सन् विहरेत्, पश्चाद्दीक्षोत्तरकाले च पुनः सिंहवृत्त्या प्रव्रज्य पश्चात् तुरेवार्थे, यथा सुखमेव निद्राविकथाद्यैः शृगालवृत्त्या विहरेत् ॥१॥
स गुर्वादिनाऽध्ययनाय प्रेरितो यद्वक्ति तदाह
सिज्जा दढा पाउरणंमि अत्थि, उप्पज्जई भोत्तु तहेव पाउं । जाणामि जं वट्टइ आउसो त्ति, किं नाम काहामि सुएण भंते ॥ २ ॥
व्याख्या-शय्या वसतिर्दृढा, न वातातपजलाद्युपद्रुता, तथा प्रावरणं वर्षाकल्पादि मेऽस्ति, उत्पद्यते जायते भोक्तुमन्नं तथैव पातुं पानं च । तथा जानामि यद्वर्त्तते जीवाजीवादि, ततो हे आयुष्मन्निति प्रेरयितुरामन्त्रणं, तत्तस्माद्धेतोः किं नाम करिष्यामि श्रुतेनाऽधीतेन ? भदन्तेत्यामन्त्रणं । कोऽर्थः ? ये भवन्तोऽधीयन्ते तेषामपि नाऽतीन्द्रियार्थज्ञानं, तत्किं गलतालुशोषेणेत्याशयः स पापश्रमण इतीहापि सिंहावलोकितन्यायेन गम्यम् ॥२॥
किञ्च
,
जे केइ पव्वइए, निद्दासीले पगामसो भोच्चा । पेच्चा सुहं सुयइ, पावसमणेति वच्च ॥३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org