SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २४४ क्तानि सर्वाणि दशापि वर्जयेत्, अन्यथाऽनवस्थामिथ्यात्वविराधनादोषसम्भवः, प्रणिधानवानेकाग्रमनाः ||१४|| श्रीउत्तराध्ययनदीपिकाटीका -१ धम्मारामे चरे भिक्खू, धितिमं धम्मसारही । धम्मारामरए दंते, बंभचेरसमाहिए ॥१५ ॥ व्याख्या-धर्म आराम इव दुःखसन्तापतप्तानां निर्वृतिहेतुतयेष्टफलदानतश्च धर्मारामस्तस्मिश्चरेत्, यद्वा धर्मे आ सम्मताद् रमते इति धर्मारामः, स चरेत् संयमाध्वनि यायाद् भिक्षुः, धृतिश्चित्तस्वास्थ्यं तद्वान् स चैवं धर्मसारथिधर्मे प्रवर्त्तयिता, धर्मे आरमन्ते इति धर्मारामाः सुसाधवस्तेषु रतो, नत्वेकाकित्वे, धर्मारामरतो, दान्त उपशान्तः, ब्रह्मचर्ये समाहितः समाधानवान् ॥१५॥ " अथ ब्रह्ममाहात्म्यमाह देवदाणवगंधव्वा, जक्खरक्खसकिन्नरा । बंभयारिं नम॑संति, दुक्करं जे करिंति तं ॥१६॥ व्याख्या - देवा ज्योतिष्कवैमानिकाः, दानवा भवनपतयः, गन्धर्वा यक्षराक्षसकिन्नरा व्यन्तराद्या भूतपिशाचमहोरगकिंपुरुषा अपि ब्रह्मचारिणं यतिं श्राद्धं च नमस्यन्ति, दुष्करं कातरजनदुरनुचरं यः करोति तद् ब्रह्मचर्यम् ॥१६॥ एस धम्मे धुवे निअए, सासए जिणदेसिए । सिद्धा सिज्झति चाणेणं, सिज्झिसंति तहावरे ॥१७॥ त्ति बेमि व्याख्या- एषोऽनन्तरोक्तो धर्मो ब्रह्मचर्याख्यो ध्रुवः स्थिरः परवादिभिरकम्प्यः प्रमाणप्रतिष्ठितः, नित्यस्त्रिकालसम्भवात्, शाश्वतोऽनवरतभवनात्, एकार्थिकान्येतानि नानादेशजविनेयानुग्रहार्थमुक्तानि, जिनैर्देशितः, सिद्धाः पुरा अनन्ता उत्सर्पिण्यवसर्पिणीषु, सिद्धयन्ति च चः समुच्चये, महाविदेहे इहापि तत्कालापेक्षयाऽनेन ब्रह्मचर्येण सेत्स्यन्ति, तथा परेऽन्येऽनन्तायामनागताद्धायां । इति समाप्तौ ब्रवीमीति प्राग्वत् ||१७|| इति षोडशं ब्रह्मचर्यसमाधिस्थानाध्ययनमुक्तम् ॥१६॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy