________________
२४३
षोडशं ब्रह्मचर्यसमाधिस्थानाध्ययनम्
विभूसं परिवज्जिज्जा, सरीरपरिमंडणं ।
बंभचेररओ भिक्खू, सिंगारत्थं न धारए ॥९॥ व्याख्या-विभूषां उपकरणगतामुत्कृष्टवस्त्राद्यां परिवर्जयेत् , शरीरपरिमण्डनं नखकेशश्मश्रुसमारचनादि ब्रह्मचर्यरतो भिक्षुः शृङ्गारार्थं विलासार्थं न धारयेन्न कुर्यात् ।।९।।
सद्दे रूवे य गंधे य, रसे फासे तहेव य ।
पंचविहे कामगुणे णिच्चसो परिवज्जए ॥१०॥ व्याख्या-शब्दा रूपाणि गन्धा रसाः स्पर्शाः, तथैव च पञ्चविधाः कामस्य गुणाः साधनभूताः कामगुणास्तान् नित्यं परिवर्जयेत् ॥१०॥ यत् प्राक् प्रत्येकमुक्तं, शङ्का वा स्यादित्यादि तद् दृष्टान्ततः स्पष्टयति
आलओ थीजणाइन्नो, थीकहा य मणोरमा । संथवो चेव नारीणं, तासिं इंदियदरिसणं ॥११॥ कूइयं रुइयं गीयं, हसियं भुत्तासियाणि य । पणीयं भत्तपाणं च, अइमायं पाणभोयणं ॥१२॥ गत्तभूसणमिटुं च, कामभोगा य दुज्जया ।
नरस्सऽत्तगवेसिस्स, विसं तालपुडं जहा ॥१३॥ व्याख्या-आलयः स्त्रीजनाकीर्णः, संस्तवः परिचयः, स चेहाप्येकासनभोगेन, कूजितादीनि हसितपर्यन्तानि कुड्यान्तरादिस्थितस्त्रीणां, भुक्तासितानि स्मृतानि, तत्र पूर्वभुक्तानि भोगरूपाणि, आसितानि स्त्र्याद्यैः सहाऽवस्थितानि, हास्यादीनि च, गात्रभूषणं, इष्टं ध्यातं, आस्तां कृतं, कामा: शब्दरूपाणि, भोगा गन्धाद्याः, कामभोगा अपीष्टा दुर्जयाः, नरस्य स्त्र्यादेश्चात्मगवेषिणः, विषं तालपुटं सद्योघातीति, यत्रौष्ठपुटान्त-- वर्तिनि तालमात्रकालविलम्बतो मृत्युर्जायते । यथैतद्विपाकदारुणं, तथा स्त्रीजनाकीर्णालयाद्यपि, शङ्कादिकरणात् , संयमजीवितस्यायुषश्च नाशहेतुत्वात् ।।११।।१२।।१३।। उपदेशे पुनरुक्तत्वात् सर्वहितं उपदिशति
दुज्जए कामभोगे य, निच्चसो परिवज्जए ।
संकाट्ठाणाणि सव्वाणि, वज्जिज्जा पणिहाणवं ॥१४॥ व्याख्या-दुर्जयान् कामभोगान् नित्यं परिवर्जयेत् , शङ्कास्थानानि चानन्तरो
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org