________________
२४२
श्रीउत्तराध्ययनदीपिकाटीका-१ असक्को रूवमद्दढुं, चक्खुगोयरमागयं । रागदोसे य जे तत्थ, ते बुहो परिवज्जए ॥१॥ [ श्रा.प्र./गा.१६ वृ.] ॥४॥ कूइयं रुइयं गीयं, हसियं थणिय कंदियं ।
बंभचेररओ थीणं, सोयगिज्झं विवज्जए ॥५॥ व्याख्या-कूजितादि प्राग् व्याख्यातं, स्त्रीणां कृतं विवर्जयेत् , कुड्यान्तरादिषु जायमानं श्रोत्रग्राह्यं सत् , तत्र ध्यानाऽकरणेन ब्रह्मचर्यरतो विवर्जयेत् ॥५॥
हासं कि९ रइं दप्पं, सहसा वित्तासियाणि य ।
बंभचेररओ थीणं, नाणुचिंते कयाइ वि ॥६॥ व्याख्या-हास्यं, क्रीडां द्यूतरमणात्मिका, रतिं कान्ताङ्गसङ्गजां प्रीति, दर्प मानिनीमानदलनोत्थं गर्व, सहसा वित्रासितानि च, पराङ्मुखभार्यादेः सपदि त्रासोत्पादकानि अक्षिस्थगनमर्मघट्टनादीनि । (पाठान्तरे-हस्सं दप्पं रइं किहुं । सह भुत्तासियाणि य अत्र स्त्रीभिः सार्द्धं भुक्तानि भोजनानि, आसितानि स्थितानि) ब्रह्मचर्यरतः स्त्रीणां तानि पूर्वकृतानि नाऽनुचिन्तयेत् कदाचिदपि ॥६॥
पणीयं भत्तपाणं तु, खिप्पं मयविवड्डणं ।
बंभचेररओ भिक्खू णिच्चसो परिवज्जए ॥७॥ व्याख्या-प्रणीतं भक्तं पानं क्षिप्रं मदस्य कामोद्रेकस्य विवर्द्धनं, शेषं प्राग्वत् ।।७।।
धम्मं लद्धं मियं काले, जत्तट्ठा पणिहाणवं ।
नाइमत्तं तु भुंजिज्जा, बंभचेररओ सया ॥८॥ व्याख्या-धर्मादनपेतं धन॑ एषणीयमित्यर्थः, लब्धं गृहिभ्यः, न तु स्वयमेवोपस्कृतं (पाठान्तरे- धम्मलद्धं 'ति-धर्मेण हेतुना धर्मलाभेन वा न तु सुकुलादिकारणेन लब्धं धर्मलब्ध) (पाठान्तरे- धम्मं लद्धं'-धर्मं क्षमाद्यं लब्धं प्राप्तुं) कथं ममायं निरतिचार: स्यादिति । मितं,
अद्धमसणस्स सवंजणस्स, कुज्जा दव्वस्स दो भाए ।
वायपवियारणट्ठा, छब्भागं ऊणगं कुज्जा ॥१॥ [प्र.सा./गा.८६७] इत्यागमोक्तमानान्वितमाहरं काले प्रस्तावे, यात्रार्थं संयमनिर्वाहार्थं, न तु रूपाद्यर्थं, प्रणिधानवांश्चित्तस्वास्थ्योपेतो, न तु रागद्वेषवशतो भुञ्जीत, तुः एवार्थे, नातिमात्रं मात्रातिक्रान्तं भुञ्जीत, ब्रह्मचर्यरतः सदा कदाचित् कारणतोऽतिमात्राहारोऽप्यदुष्टः ।।८।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org