________________
षोडशं ब्रह्मचर्यसमाधिस्थानाध्ययनम्
२४१ व्याख्या-इमानि पूर्वोक्तानि दश ब्रह्मचर्यसमाधिस्थानानि भवन्ति । अथात्र तेषां सर्वेषां दशानां समाधिस्थानानां सङ्ग्रहश्लोकान् पद्यरूपानाह-तद्यथा
जं विवित्तमणाईण्णं, रहियं इत्थीजणेण य ।
बंभचेरस्स रक्खट्टा, आलयं तु निसेवए ॥१॥ व्याख्या-'जति प्राकृतत्वात् यो विविक्तो रहसि स्थितस्तत्रैव, वास्तव्यस्त्र्याद्यभावात् । अनाकीर्णः कार्यागतस्त्र्याद्यसङ्कलः, रहितोऽकालचारिणा वन्दनश्रवणादिनिमित्तागतेन स्त्रीजनेन, चात् पण्डकषिङ्गायै रहितः, कालाकालचारित्वविभागः श्रमणीराश्रित्यायं
अट्ठमीपक्खिए मोत्तुं, वायणाकालमेव ।
सेसकालमइंतीओ, नेयाओ अकालचारिओ ॥१॥ [पा. स./गा.३५ ] ब्रह्मचर्यस्य रक्षणार्थमालयो 'लिङ्गव्यत्ययः प्राकृतत्वात्' तुः पूर्ती, साधुस्तमनन्तरोक्तमालयं निषेवते ॥१॥
मणपल्हायजणणी, कामरागविवड्डणीं ।
बंभचेररओ भिक्खू, थीकहं तु परिवज्जए ॥२॥ व्याख्या-मनःप्रह्लादजननी, कामरागस्य विषयरागस्य विवर्द्धनी, एवंविधां स्त्रीकथां यथा “तद्वक्तुं यदि मुद्रिता शशिकथा" इत्यादिकां ब्रह्मचर्यरतो भिक्षुर्विवर्जयेत् ।।२।।
समं च संथवं थीहिं संकहं च अभिक्खणं ।
बंभचेररओ भिक्खू निच्चं सो परिवज्जए ॥३॥ व्याख्या-स्त्रीभिः समं सह संस्तवं परिचयं, निषद्यया एकासनगभोगेन, सङ्कथां स्त्रीभिः समं सन्ततभाषणं अभीक्ष्णं पुनः पुनः, ब्रह्मचर्यरतो भिक्षुर्नित्यं परिवर्जयेत् ॥३॥
अंगपच्चंगसंठाणं चारुल्लवियपेहियं ।
बंभचेररओ थीणं, चक्खुगिझं विवज्जए ॥४॥ व्याख्या-अङ्गानि शिरःप्रभृतीनि, प्रत्यङ्गानि कुचकक्षादीनि, संस्थानं कटीनिविष्टकरादिसन्निवेशं, चारु उल्लपितं मन्मनभाषितादि, प्रेक्षितमर्द्धकटाक्षादि, इति चारूल्लपितपेक्षितं, ब्रह्मचर्यरतो मुनिः स्त्रीणां चक्षुाह्यं सदपि विवर्जयेत् । कोऽर्थः ? चक्षुषि सति रूपग्रहणमवश्यं भावि, परं न रागवशतः पुनः पुनरस्तदवेक्ष्यं, उक्तं च
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org