SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २४० श्रीउत्तराध्ययनदीपिकाटीका-१ चे, अइमायाए पाणभोयणं आहारेमाणस्स बंभयारिस्स बंभचेरे तहेव निक्खेवो, तम्हा नो निग्गंथे अइमायाए पाणभोयणं भुंजिज्जा ॥८॥ व्याख्या-नो अतिमात्रया, द्वात्रिंशत्कवला नराणां, अष्टाविंशतिः स्त्रीणामित्यागमोक्तमात्रातिक्रमेण पानभोजनमाहारयिता भवति यः स निर्ग्रन्थः । तत्कथं ? आचार्य: प्राह-अतिमात्रया पानभोजनमाहारयितुर्ब्रह्मचारिणः, शेषं स्पष्टं प्राग्वच्च । तस्मान्नो निर्ग्रन्थोऽतिमात्रया पानभोजनं भुञ्जीत ॥८॥ अथ नवममाह नो विभूसाणुवाइ भवइ से निग्गंथे, तं कहमिति चे, विभूसावत्तिए विभूसियसरीरे इत्थीजणस्स अहिलसणिज्जो भवइ, तओ णं तस्स इत्थीजणेण अहिलसिज्जमाणस्स बंभयारिस्स बंभचेरसंका, जाव तम्हा खलु नो निग्गंथे विभूसावत्तिए भविज्जा ॥९॥ ___ व्याख्या-नो निर्ग्रन्थो विभूषणानुवादी शरीरोपकरणादिषु स्नानधावनादिभिः संस्कारकर्ता भवति, तत्कथं ? आचार्य प्राह-विभूषां वितयितुं शीलमस्येति विभूषावतिको भवेदित्यादि, स एव विभूषितशरीरः स्नानाद्यलङ्कृततनुः स्त्रीजनस्याभिलषणीयः प्रार्थनीयो भवति, ततस्तस्य स्त्रीभिरभिलषणीयस्य ब्रह्मचारिण इत्यादि स्पष्टं प्राग्वच्च । तस्मान्न निर्ग्रन्थो विभूषावतिको भवेदिति ॥९॥ अथ दशममाह नो निग्गंथे सद्दाणुवाई, रूवाणुवाई, गंधाणुवाई, रसाणुवाई, फासाणुवाई भविज्जा, तं कहमिति चे, निग्गंथस्स खलु सद्दाणुवाईयस्स जाव तम्हा खलु नो निग्गंथे सद्दाणुवाई जाव फासाणुवाई हविज्जा ॥१०॥ ____ व्याख्या-नैव, शब्दो मन्मनभाषितादिः, रूपं कटाक्षनिरीक्षणादि चित्रादिगतं वा स्त्र्यादिसम्बन्धि, गन्धः सुरभिः, रसो मधुरादिः, स्पर्शोऽनुकूलः कोमलमृणालादेः, एतानभिष्वङ्गहेतून् अनुपतति मनोवाक्कायैराश्रयतीत्येवंशीलः शब्दरूपगन्धरसस्पर्शानुपाती भवेत् । तत्कथमिति चेद् निग्रन्थस्य शब्दानुपातिनो ब्रह्मचारिण इत्यादि स्पष्टं प्राग्वच्च । तस्मान्नो निर्ग्रन्थः शब्दानुपातीत्यादि भवेत् ॥१०॥ दसिमे बंभचेरसमाहिठाणा भवंति, इत्थ सिलोगो ॥ तं जहा Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy