SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ षोडशं ब्रह्मचर्यसमाधिस्थानाध्ययनम् २३९ ____ व्याख्या-नो स्त्रीणां कुड्यं लेष्ठुकादिरचितं, तेनान्तरं व्यवधानं कुड्यान्तरं तस्मिन् , वा दुष्यान्तरे यवनिकान्तरे, भित्तिः पक्वेष्टिकादिरचिता, तदन्तरे, स्थित्वेति शेषः, कूजितशब्दं स्त्रियो रतसमये कोकिलादिपक्षिरवतुल्यं ध्वनि, रुदितशब्दं रतिकलहादिषु , गीतशब्दं पञ्चमादिहुङ्कृति, हसितशब्दं कहकहादिकं, स्तनितशब्दं रतसमये कृतं, क्रन्दितशब्दं प्रोषितभर्तृकादिकृतं, विलपितशब्दं विलापशब्दं गुणै रुदितं । वा सर्वत्र विकल्पार्थः, शृण्वन् विहरेत् तिष्ठेत् यः स निर्ग्रन्थः । तत्कथमिति चेन्निर्ग्रन्थस्य स्त्रीणां कुड्यान्तरादौ शब्दं शृण्वतो ब्रह्मचारिणः, शेषं प्राग्वत् । तस्मान्निर्ग्रन्थः स्त्रीणां कुड्यान्तरे यावत् कुजितादि शृण्वन् न विहरेत् ॥५॥ अथ षष्ठमाह नो निग्गंथे इत्थीणं पुव्वरयं पुव्वकीलियं अणुसरित्ता भवइ, तं कहमिति चे, निग्गंथस्स खलु इत्थीणं पुव्वरयं पुव्वकीलियं अणुसरमाणस्स जाव भंसेज्जा, तम्हा खलु निग्गंथेण इत्थीणं पुव्वरयं पुव्वकीलियं वा जाव नो अणुसरिज्जा ॥६॥ व्याख्या-नो निर्ग्रन्थः पूर्वं गृहस्थत्वे रतं स्त्र्याथैः सह विषयानुभवनं, पूर्वक्रीडितं ताभिरेव द्यूतादि वाऽनुस्मर्ताऽनुचिन्तयिता भवेत । तत्कथं ? आचार्यः प्राह-निर्ग्रन्थस्य खलु स्त्रीणां पूर्वरतादि स्मरत इत्यादि प्राग्वत् । तस्मान्नो निर्ग्रन्थः स्त्रीणां पूर्व गृहस्थत्वे रतं पूर्वक्रीडितं स्मरेत् ॥६॥ अथ सप्तममाह नो पणीयं आहारं आहरित्ता भवइ से निग्गंथे, तं कहमिति चे, पणीयं पाणभोयणं आहारेमाणस्स बंभचारिस्स बंभचेरे तहेव निक्खेवो, तम्हा खलु नो निग्गंथे पणीयं आहारं आहरेज्जा ॥७॥ ___ व्याख्या-नो नैव प्रणीतं गलत्स्नेहबिन्दुमन्यमप्यत्यन्तधातूद्रे ककारिणम्[आहारम्]आहारयिता भवति यः स निर्ग्रन्थः, तत्कथं ? आचार्यः प्राह-निर्ग्रन्थस्य प्रणीतमाहारमाहारयितुर्ब्रह्मचारिणः, शेषं स्पष्टं प्राग्वच्च, तस्मात् खलु नो निर्ग्रन्थः प्रणीतमाहारमाहरेत् ।।७॥ अथाष्टममाहनो अइमायाए पाणभोयणं आहारित्ता हवइ से निग्गंथे, तं कहमिति Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy